SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - ४, ४०१ नमेवमिहापीति । तत्र प्राक्तनं कर्म युदुदीर्णं यच्च बद्धमास्ते तस्मिन् सत्येव तदविविच्य अइत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति । तत्र प्राक्तनं कर्म यदुणं यच्च बद्धमास्ते तस्मिन् सत्वे तदविविच्य अपृथक्कृत्य तथाऽविधूय असमुच्छिद्याऽननुताप्यैते चाविविच्यादयश्चत्वारोऽप्येकार्थिका अवस्थाविशेषं वाऽऽश्रित्य भेदेन व्याख्यातव्याः । तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संज्ञिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकायं असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुध्धृत्य प्रतनुवेदनेषु तिर्यक्षूत्पद्यन्ते, एवंदेवा अपि प्रायशस्तत्कर्मशेषतया शुभस्थानेषूत्पद्यन्तेइत्यवगर्त्तव्यं, अत्र च चतुर्भंगकसंभवं सूत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षु प्राक्प्रतिपन्नमर्थं निगमयन्नाह - 'जे एते से' त्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चापर्याप्तकाः अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानित्वादित्यभिप्रायः, तथा सर्वजीवेष्वपि नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपाताद्येषु सर्वेष्वप्याश्नवद्वारेषु वर्तन्त इति । तदेवं व्यवस्थिते यदुक्तं चोदकेन- 'तद्यथाइहाविद्यमानाशुभयोगसंभवे कथं पापं कर्म बध्यत' इत्येतन्निराकृ त्य विरतेरभावात्तद्योग्यतया पापकर्मसद्भावं दर्शयति-‘एवं खलु' इत्यादि 'एवं' उक्तनीत्या खल्ववधारणेऽलङ्कारे वा भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति यावत्पापं च कर्म क्रिय इति । तदेवमप्रत्याख्यानिनः कर्मसंभवात्तत्संभवाच्च नारकतिर्यङ्नरामरगतिलक्षण संसारमवगम्य संजातवैराग्यश्चोदक आचार्यं प्रति प्रवणचेताः प्रश्नयितुमाह मू. (७०४) चोदक:- से किं कुव्वं किं कारवं कहं संजयविरयप्पडिहयपञ्चक्खायपावकम्मे भवइ ?, आचार्य आह तत्थ खलु भगवया छज्जीवनिकाय हेऊ पन्नत्ता, तंजहा- पुढवीकाइया जाव तसकाइया । से जहानामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिजमाणस्स वा जाव उवद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेभि, इच्चेवं जाण सव्वे पाणा जाव सव्वे सत्ता दंडेण वा जाव कवालेण वा आतोडिजमाणे वा हम्ममाणेवातज्जिज्ज्रमाणे वा तालिज्जमाणए वा जाव उवद्दविज्जमाणे वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति । एवं नञ्चा सव्वे पाणा जाव सव्वे सत्ता न हंतव्वा जाव न उद्दवेयव्वा, एस धम्मे धुवे निइए सासए समिच्च लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणाइवायातो जाव मिच्छादंसणसल्लाओ, से भिक्खू नो दंतपक्खालणेणं दंते पक्खालेज्जा, नो अंजणं नो वमणं नो धूवणित्तं पिआइते, सं भिक्खू अकिरिए अलूसए अकोहे जाव अलोभे उवसंते परिनिव्वुडे । एस खलु भगवया अक्खाए संजयविरयपडिहयपच्चक्खायपावकम्मे एगंतपंडिए भवइ- त्तिबेमि । अकिरिए संवुडे वृ. अथ किमनुष्ठानं स्वतः कुर्वन् किं वा परं कारयन् 'कथं' वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति ?, संयतस्य हि विरतिसद्भावात्सावद्यक्रियानिवृत्तिस्तन्निवृत्तेश्च कृतकर्मसंचयाभावस्तदभावान्नरकादिगत्यभाव इत्येवं पृष्ये सत्याचार्य आह 2126 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy