Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः -२, अध्ययनं-४,
३९९
खननस्थाननिषीदनत्वग्वर्तनोच्चारप्रश्रवणादिकरणक्रियासद्भावाद्, एवमप्तेजोवायुवनस्पतिष्वपि वाच्यं, तत्रापकायेन स्नानपानावगाहन भाण्डोपकरणधावनादिषु उपयोगः, तेजः कायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनाऽपि व्यअनतालवृन्तोडुपादिव्यापारदिषु प्रयोजनं, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रत्वकशाखाधुपयोगः, एवं विकलेन्द्रियपञ्चेन्द्रियेष्वप्यायोज्यमिति।
तथैकः कश्चित्षट्स्वपिजीवनिकायेषुअविरतः असंयतत्वाच्च तैरसौ 'कार्य' सावद्यानुष्ठानं स्वयं करोति कारयति च तत्परैः, तस्य च क्वचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्यथा- एवं खल्वहं षभिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिज्ञेति, स च तेषु षट्स्वपि जीवनिकायेष्वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपि वाच्यं, तद्यथा-इदंमा वक्तव्यमनृतमीग्भूतंतुन वक्तव्यं, सचतस्मान्मृषावादादनिवृत्तत्वादसंयतोभवति, तथाऽदत्तादानमप्याश्रित्यवक्तव्यं, तद्यथा-इदंमयाऽदत्तादानंग्राह्यमिदं तुन ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमानमायालोभेष्वपि स्वयमभ्यूह्य वाच्यं ।
तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतत्वात्प्रत्ययिकंकर्माश्रवति, तथाचासावविरतिप्रत्ययिकं कर्म चिनोतीति, एवं देशकालस्वभावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतोऽसौ भवति तत्प्रत्ययिक चकर्माचिनोतीति, सोऽयं संज्ञिष्टान्तोऽभिहितः। सच कदाचिदेकमेव पृथिवीकार्यव्यापादयति शेषेषु निवृत्तः कदाचिद्वावेवंत्रिकादिकाः संयोगा भणनीया यावत्सर्वानपिव्यापादयतीति।स चैवं सर्वेषां व्यापादकत्वेन व्यवस्थाप्यते, सर्वविषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादी प्रवृत्तो यद्यपि च न तेन विवक्षितकाले केचन पुरुष दृष्टास्तथाऽप्यसौ तप्रवृत्तिनिवृत्तेरभावात्तद्योग्यतया तद्घातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ॥
संज्ञिद,दृष्टान्तानन्तरमसंज्ञिहष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञासा विद्यते येषां ते संज्ञिनस्तप्रतिषेधादसंज्ञिनो मनसो द्रव्यताया अभावात्तीव्रातीव्राध्यवसायविशेषरहिताः प्रसुप्तमत्तमूर्छितादिवदिति, ये इमेऽसंज्ञिनः तद्यथा-पृथिवीकायिका यावद्वनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमूर्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो येषां नो 'तर्को' विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संज्ञिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमयं स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तर्क संभवति, नैवं तेषामसंज्ञिनांतर्कासंभवन्तीति, तथा संज्ञानं संज्ञा-पूर्वोपलब्धेऽर्थेतदुत्तरकालपर्यालोचना, तथाप्रज्ञानं प्रज्ञा-स्वबुद्धयोत्प्रेक्षणंस एवायमित्येवंभूतंप्रत्यभिज्ञानंच,तथामननंमनो-मतिरित्यर्थ
साचावग्रहादिरूपा, तथाप्रस्पष्टवर्णावाक्साचन विद्यतेतेषामिति, यद्यपिचद्वीन्द्रियादीनां जिह्वेन्द्रियगलविवरादिकमस्ति तथापिन तेषांप्रस्पष्टवर्णत्वं, तथानचैषांपापं हिंसादिकं करोमि कारयामि येत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वाकारयामीत्येवंभूतोऽध्यवसायोन विद्यते तेषां तदेवं तेऽप्यसंज्ञिनोबालवद्वालाः सर्वेषां प्राणिनांघातनिवृत्तेरभावात्तद्योग्य तया घातका व्यापादकाः, तथाहि
द्वीन्द्रियादयः परोपघातेप्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यतेतेषामविरतत्वात्, केवलं कर्मपरतन्त्राणां वागभावः, तथाऽदत्तादानमपि तेषामस्त्येव दध्यादिभक्षणात् तथेदमस्मदीयमिदंचपारक्यमित्येवंभूतविचाराभावाच्चेति, तथा तीव्रनपुंसकवेदो-दयानमैथुनाविर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484