Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 387
________________ ३८४ सूत्रकृताङ्ग सूत्रम् २/३/-/६८८ ततो पच्छा जं से माया नानाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेति, आनुपुव्वेण वुड्ढा पिलपागमणुपवन्ना ततो कायातो अभिनिवट्टमाणा इत्थि वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेति, आनुपुव्वेणं वुड्ढा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं नानाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा नानावण्णा भवतीतिमक्खायं । वृ. अथानन्तरमेतत् 'पुरा' पूर्वमाख्यातं, तद्यथा आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणन्तीया समाख्यातं तेषां च स्त्रीपुंनपुंसकभेदभिन्नानां 'यथाबीजेने 'ति यद्यस्य बीजं, तत्र स्त्रियाः सम्बन्धि शोणितं पुरुषस्य शुक्रं एतदुभय-मप्यविध्वस्तं, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते, तथा 'यथावकाशेने 'ति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षि पुरुषस्यो भयाश्रितः षण्ढ इति । अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो न शेषेषु त्रिष्विति । अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिर्वर्तितायां योनी 'मैथुनप्रत्ययिको' रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते । तेच प्रथममुभयोरपि स्नेहमाचिन्वन्त्विध्वस्तायां योनी सत्यामिति, विध्वस्यते तु योनिः पञ्चपञ्चाशिका नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतः तत ऊर्ध्वं ध्वंसमुपगच्छत इति । तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुन्पुंसकभावेन 'विउट्टंति' त्ति वर्तन्ते समुत्पद्यन्त इतियावत्, तदुत्तरकालं च स्त्रीकुक्षौ प्रविधः सन्तः स्त्रियाऽऽहारितस्याहारस्य निर्यासं स्नेहमाददति, तत्स्नेहेन च तेषां जन्तूनां क्रमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते- 'सत्ताहं कललं होइ, सत्ताहं होइ बुब्बुयं' इत्यादि । तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्व्येणाहारयन्ति 'यथाक्रमम्' वृद्धिमुपागताः सन्तो 'गर्भपरिपाकं' गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति । तेच तथाविधकर्मोदयादात्मनः स्त्रीभावमप्येकदा 'जनयन्ति' उत्पादयन्त्यपरे केचन पुंभावं नपुंसकभावं च, इदमुक्तं भवति स्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्मनिर्वर्तितो भवति, न पुनर्यो याहि भवे सोऽमुष्मिन्नपि ताध्गेवेति, ते च तदहर्जातबालकाः सन्तः पूर्वभवाभ्यासादाहाराभि- लाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्व्येण च वृद्धास्तदुत्तरकालं नवनीत- दध्योदनादिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतं सारूप्यमापादितं सत् 'रसासृङ्गांसमेदोऽस्थिमज्जाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवन्ति, ते च तद्योनिकत्वात्तदाधा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484