Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३८६
सूत्रकृताङ्ग सूत्रम् २/३/-/६८९ उरपरिसप्पाणं, नाणतं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं नानाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणंचम्मपक्खीणं जावमक्खायं।
वृ. अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा-नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानांसंबन्धिनः कांश्चित्स्वनामग्राहमाह, तद्यथा-'मच्छांजावसुंसुमाराण'मित्यादि, तेषां मत्स्यकचछपमकरग्राहसुसुमारादीनां यथाबीजेन-यस्य यथा यद्वीजं यथाबीजं तेन तथा यथावकाशेन-यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्य चस्वकर्मनिवर्तितायांयोनावुत्पद्यन्ते ते चतत्राभिव्यक्तामातुराहारेणेवृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, तेचजीवा जलचराग द्वयुकान्ताः सन्तस्तदनन्तरंयावद् ‘डहर'त्तिलधवस्तावदपस्नेहम अपकायमेवाहारयन्ति आनुप्व्येण च वृद्धाः सन्तो वनस्पतिकायं तथाऽपरांश्च त्रसान् स्थावरांचाहारयन्ति यावत्पञ्चेद्रियानप्याहारयन्ति, तथा चोक्तम् । ॥१॥ "अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः।
तिमिङ्गिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति राघव! ॥ तथा तेजीवाः पृथिवशरीरं-कर्दमस्वरूपंक्रमेणवृद्धिमुपगताः सन्तआहारयन्ति, तच्चाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेषं सुगम, यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् साम्प्रतं स्थलचरानुद्दिश्याह-'अहावर'मित्यादि, अथापरमेतदाख्यातं नानाविधानं चतुष्पदानां, तद्यथा-एकखुराणामित्यश्वखरादीनां तथा द्विखुराणां-गोमहिष्यादीनांतथागण्डीपदानां-हस्तिगण्डकादीनांतथा सनखपदानां-सिंहव्याघ्रादीनांयथाबीजेन यथावकाशेन सकलपर्याप्तिमवाप्योत्पद्यन्ते ते चोत्पन्नाःसन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेणच वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपगता भवन्तीति। ___साम्प्रतमुरःपरिसानुद्दिश्याह- नानाविधानां बहुप्रकाराणामुरसा येप्रसर्पन्ति तेषां, तद्यथाअहीनामजगराणामाशालिकानां महोरगाणां यथाबीजत्वेन यथावकासेन चोत्पत्याऽण्डजत्वेन पोतजत्वेनवाग निर्गच्छन्तीति।तेच निर्गता मातुरूष्माणवायुंचाहारयन्ति, तेषांचजातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेषं सुगम, यावदाख्यातमिति ।। साम्प्रतं भुजपरिसपनुिद्दिश्याह-नानाविधानां भुजाभ्यांयेपरिसर्पन्तितेषां, तद्यथा-गोधानकुलादीनां स्वकर्मोपात्तेन यथाबीजेनयथावकाशेनचोत्पत्तिर्भवति, तेचाण्डजत्वेनपोतजत्वेनचोत्पन्नास्तदनन्तरंमातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेषं सुगमं, यावदाख्यातिमिति।
साम्प्रतं खेचरानुद्दिश्याह-नानाविधानांखेचराणामुत्पत्तिरेवं द्रष्टव्या-तद्यथा-चर्मपक्षिणांचर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां-सारसराजहंसकाकबकादीनां तथा समुद्रपक्षिविततपक्षिणांबहिर्दीपवर्तिनामेतेषांयथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा- सा पक्षिणी तदण्डकं स्वपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदूष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चञ्चादिकानवयवान् परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत ।
व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यञ्चश्व, तेषां चाहारो द्वेधा-आभोगनिवर्तितोऽना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484