Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 374
________________ श्रुतस्कन्धः - २, अध्ययनं - २, गुप्तो यस्य स तथा एतदुक्तं भवति । स्वयमेवासौ संयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगी आत्मनो योगः कुशलमनः प्रवृत्तिरूप आत्मयोगः स यस्यास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तत्वादितिभावः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तत्वादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं विधत्त इति, तथाऽऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकान्निःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रियास्थानेभ्यः प्रतिसंहरेत्, यदिवोपदेशः - आत्मानं सर्वापायेभ्यः प्रतिसंह्रियात्-सर्वानर्थेभ्यो निवर्तयेदित्येतस्मिन्महापुरुषे संभाव्यत इति । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । नयाः पूर्ववद्व्याख्येयाः । अध्ययनं-२ समाप्तम् मुनी दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीयअध्ययनटीका परिसमाप्ता । अध्ययनं - ३ " आहार परिज्ञा" ३७१ वृ. द्वितीयाध्ययनान्तरं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, स च मुमुक्षुणोद्देशकादिदोषरहितो ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन सम्बन्धेनाहारपरिज्ञाध्ययनमायातम्, अस्य चत्वार्यनुयोग द्वाराण्युपक्रमादीनि भवन्ति तत्रेदमध्यनं पूर्वानुपूर्व्या तृतीयं पश्चानुपूर्व्यापञ्चममनानुपूर्व्या त्वनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन निरुप्यते । निक्षेपस्त्रिविधः - ओघादि, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिज्ञेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःनामंठवणादविए खेत्ते भावे य होति बोद्धव्वो । नि. [१६९ ] एसो खलु आहारे निक्खेवो होइ पंचविहो । तत्र वृ. नामस्थानाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारो भवति निक्षेप आहरपदाश्रय इति, नामस्थापने अनात्य द्रव्याहारं प्रतिपादयितुमाह - नि. [ १७० ] दव्वे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ वृ. द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविधो भवति, तद्यथा- सचित्तोऽचित्तो मिश्रश्च, तत्रापि सचित्तः षड्विधः पृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽपकायादेरपीति, एवं मिश्रोऽचित्तश्च योज्यः, नवरमग्निकायमचित्तं प्रायशो मनुष्या आहारयन्ति, ओदनादेस्तद्रूपत्वादिति । क्षेत्राहारस्तु यस्मिन्क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायते वा यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथामथुरायाः समासन्नो देशः परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि । " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484