________________
श्रुतस्कन्धः - २, अध्ययनं - २,
गुप्तो यस्य स तथा एतदुक्तं भवति ।
स्वयमेवासौ संयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगी आत्मनो योगः कुशलमनः प्रवृत्तिरूप आत्मयोगः स यस्यास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तत्वादितिभावः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तत्वादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं विधत्त इति, तथाऽऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकान्निःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रियास्थानेभ्यः प्रतिसंहरेत्, यदिवोपदेशः - आत्मानं सर्वापायेभ्यः प्रतिसंह्रियात्-सर्वानर्थेभ्यो निवर्तयेदित्येतस्मिन्महापुरुषे संभाव्यत इति । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । नयाः पूर्ववद्व्याख्येयाः ।
अध्ययनं-२ समाप्तम्
मुनी दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीयअध्ययनटीका परिसमाप्ता । अध्ययनं - ३ " आहार परिज्ञा"
३७१
वृ. द्वितीयाध्ययनान्तरं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, स च मुमुक्षुणोद्देशकादिदोषरहितो ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन सम्बन्धेनाहारपरिज्ञाध्ययनमायातम्, अस्य चत्वार्यनुयोग द्वाराण्युपक्रमादीनि भवन्ति
तत्रेदमध्यनं पूर्वानुपूर्व्या तृतीयं पश्चानुपूर्व्यापञ्चममनानुपूर्व्या त्वनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन निरुप्यते । निक्षेपस्त्रिविधः - ओघादि, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिज्ञेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःनामंठवणादविए खेत्ते भावे य होति बोद्धव्वो ।
नि. [१६९ ]
एसो खलु आहारे निक्खेवो होइ पंचविहो ।
तत्र
वृ. नामस्थानाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारो भवति निक्षेप आहरपदाश्रय इति, नामस्थापने अनात्य द्रव्याहारं प्रतिपादयितुमाह -
नि. [ १७० ] दव्वे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥
वृ. द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविधो भवति, तद्यथा- सचित्तोऽचित्तो मिश्रश्च, तत्रापि सचित्तः षड्विधः पृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽपकायादेरपीति, एवं मिश्रोऽचित्तश्च योज्यः, नवरमग्निकायमचित्तं प्रायशो मनुष्या आहारयन्ति, ओदनादेस्तद्रूपत्वादिति । क्षेत्राहारस्तु यस्मिन्क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायते वा यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथामथुरायाः समासन्नो देशः परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org