SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७२ सूत्रकृताङ्ग सूत्रम् २/३/१६७४/नि. [१७०] भावाहारस्त्वयं-क्षुधोदयाद्भक्ष्यपर्यायापन्नं वस्तु यदाहारयति सभावाहार इति । तत्रापि प्रायशआहारस्य जिह्वेन्द्रियविषयत्वात्तिक्तकटुकषायाम्ललवणमधुररसा गृह्यन्ते, तथाचोक्तम् राईभत्तेभावओ तित्तेवाजावमधुरे" त्यादि, अन्यदपिप्रसङ्गेनगृह्यते, तद्यथास्वरविशदमभ्यवहार्य भक्ष्यं, तत्रापि बाष्पाढ्य ओदनः प्रशस्वते न शीतः, उदकं तु शीतमेव, तथा चोक्तं"शैत्यमपांप्रधानोगुणः" एवंतावदभ्यवहार्यं द्रव्यमाश्रित्य भावाहारः प्रतिपादितः, साम्प्रतमाहारकमाश्रित्य भावाहारंनिर्युक्तुकृदाह-भावाहारस्त्रिविधः-त्रिपक्रारोभवति, आहारकस्यजन्तोस्त्रिभिः प्रकारैराहारोपादानादिति, प्रकारानाहनि. [१७१] सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायव्यो । वृओए'त्तितैजसेन शरीरेण तत्सहचरितेनच कार्मणेनाभ्यांदाभ्यामप्याहारयतियावदपर मौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम्॥१॥ "तेएण कम्मएणं आहारेइअनंतरंजीवो। तेन परं मिस्सेणंजाव सरीरस्स निष्फत्ती। नि. [१७२] ओयाहारा जीवा सव्वे अप्पजत्तगा मुणेयव्वा। पज्जत्तगा य लोमे पक्खेवे होइ नायव्वा ।। वृ.तथा-ओजाहाराजीवा सव्वेआहारगाअपज्जत्ता। लोभाहारस्तु शरीरपर्याप्त्युत्तरकालं बाह्ययात्वचा, लोमभिराहारो लोमाहारः, तथाप्रक्षेपेणकवलादेराहारः प्रक्षेपाहारः,सचवेदनीयोदयेनचतुर्भिस्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तम्-“चउहि ठाणेहिंआहारसन्नासमुप्पज्जइ, तंजहा-ओमकोट्टयाए १ छुहावेयणिज्जस्स कम्मस्स उदएणं २ मईए ३ तयट्ठोवओगेणं"ति साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह-तैजसेन कार्मणेन च शरीरेणौदारिकादिशरीरानिष्पत्तेर्मिश्रेणचय आहारःससर्वोऽप्योजाहार इति, केचिद्व्याचक्षतेऔदारिकादिशरीरपर्याप्तयापर्याप्तकोऽपीन्द्रियानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा-स्पर्शेन्द्रियेण य आहारः स लोमाहार इति, प्रक्षेपाहारस्तु 'कावलिकः' कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव स्वामिविशेषेण विशेषमाविर्भावयन्नाह-यःप्रागुक्तःशरीरेणौजसाऽऽहारस्तेनाहारेणाहारकाजीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वाभिः पर्याप्तिभिरपर्याप्तास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणा विग्रहेण वोत्पत्तिदेशे तैजसेन कार्मणेन च शरीरेण तप्तस्नेहपतितसंपानकवत्तप्रदेशस्थानात्पुद्गलानादत्ते, तदुत्तरकालमपियावदपर्याप्तकावस्था तावदोजाहार इति। पर्याप्तकास्त्विन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तकावागृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तश्छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्थोऽपि, पर्याप्तयुत्तर काले लोभाहार एवेति, प्रक्षेपाहारे तु भजनीयाः, यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्वदैवेति, स च लोभाहारश्चक्षुष्पताम्-अर्वाग्दृष्टिमतांन दृष्टिपथमवरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते प्रायः, स च नियतकालीयः, तद्यथा-देवकुरुत्तरकुरु प्रभवा अष्टमभक्ता हाराः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy