Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-१,
२६७
विशेषावे सम्यकत्वमतिचारयन्तितेचानेकप्रकारा गुणिनामनुपबृंहादयः ततस्तेषांमध्ये पेयाल'त्ति साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशत्वाद्येते तथा तत्र शङ्का-संशयकरणकाङ्क्ष-अन्यान्यदर्शनग्रहः विचिकित्सा-फलंप्रति शङ्का विद्वज्जुगुप्सा वा-साधूनाजात्यादिहीलनेति, परपाषण्डाःपरदर्शनिनस्तेषां प्रशंसा--गुणोत्कीर्तनं परपाषण्डसंस्तवः-तत्परिचयः।
तथा 'वन्धेत्ति बन्धो द्विपदादीनां रज्वादिना संयमनं 'वहे' त्ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए'त्तिशरीरावयवच्छेदः अइभारे'त्तिअतिभारारोपणंतथाविधशक्तिविकलानां महाभारारोपणं 'भत्तपाणवोच्छेए'त्ति अशनपानीयाद्यप्रदानं, इहायं विभागः पूज्यैरूक्तः॥१॥ 'बन्धवहं छविछेई अइभारं भत्तपाणवोच्छेयं ।
कोहादिदूसियमणो गोमणुयाईण नो कुञ्जा' ।। (तथा) ॥१॥ न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः ।
निगद्यते यः कुपितः करोति, व्रतेऽनपेक्षस्तदसौ व्रती स्यात् ।। ॥२॥ कायेन भग्न न तो व्रती स्यात्कोपायाहीनतया तुभग्नम्।
तद्देशभङ्गादातिचार इष्टः, सर्वत्र योज्यः क्रम एष धीमन् ! ॥ (इती) __'सहसाअभक्खाणे' ति सहसा-अनालोच्याभ्याख्यानम्-असद्दोषाध्यारोपणं सहसाऽभ्याख्यानं, यथा “चौरस्त्वम्' इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीव्रसंक्लेशेन भणनादिति १, 'रहसाअभक्खाणे त्तिरहः-एकान्तस्तेन हेतुनाअभ्याख्यानरहोऽभ्याख्यानम्, एतदुक्तं भवति-रहसि मन्त्रयमाणानां वक्ति-एते हीदं चेदं च राजापकारादि मन्त्रयन्तीति, एतस्य चातिचारत्वमनाभोगमभणनात, एकान्तमात्रोपाधितयाचपूर्वस्माद्विशेषः,अथवासम्भाव्यमानार्थभणनादतिम्रो न तु भङ्गोऽयमिति२, सदारमन्तभेए'त्तिस्वदारसंबन्धिनो मन्त्रस्य–विश्रम्भजल्पस्य भेदः-प्रकाशनंस्वादारमन्त्रभेदः, एतस्यचातिचारत्वंसत्यभणनेऽपिकलत्रोक्ताप्रकाशनीय प्रकाशनेन लजादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वात्तस्येति ३, 'मोसोवएसे' त्ति मृषोपदेशः-परेषामसत्योपदेशः सहसाकारानाभोगादिना, व्याजेन वायथा अस्माभिस्तदिदमिदं वाऽसत्यमभिधाय परो विजित' इत्येवंवार्ताकथनेन परेषामसत्य- वचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्तनादिति ४, कूडलेहकरणे ति असद्भतार्थस्य लेखस्यविधानमित्यर्थः, एतस्य चातिचारत्वंप्रमादादिना दुर्विवेकत्वेन वा, ‘मया मृषावादः प्रत्या-ख्यातोऽयंतु कूडलेखो, न मृषावादनम्' इति भावयत इति ५,
वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिज्जं सन्धिकरणे'त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थूलमृषावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते-एते एव प्रमादासहसाकारानाभोगैरभिधीयमाना मृषावादविरतेरतिचाराभवन्ति, आकुट्टया तु भङ्गा इति, एतेषां चेदं स्वरूपम्-कन्या-अपरिणीता स्त्री तदर्थमलीकं कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्वं मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणं, भूम्यलीकमपदानांसचेतनाचेतनवस्तूनामलीकस्योपलक्षणं, न्यासो-द्रव्यस्य निक्षेपः, परैः समर्पितंद्रव्यमित्यर्थः, तस्यापहारः-अपलपनंन्यासापहारः, तथा कूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्यं-साक्षिकर्म कूटसाक्ष्यं, कस्मिन्नित्याह-सन्धिकरणे' द्वयोर्विवदमानयोः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9574a97b7a0f1948fb8d5999333423ee019da03c5e56e7b6c8c01f9be090f569.jpg)
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80