Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ २७० उपासकदशाङ्गसूत्रम् १/९ भेदोपादानेनेति?, उच्यते, पूर्वोक्तपृथिव्यादिसचित्तसामान्यापेक्षयाऔषधीनांसदाभ्यवहरीयत्वेन प्राधान्यख्यापनार्थ, श्यते च सामान्योपादाने सत्यपि प्राधान्यापेक्षया विशेषोपादानमिति ३, 'दुप्पउलिओसहिभक्खणया' दुप्पकाःअग्निना ओषधयस्तद्भक्षणता, अतिचारता चास्य पक्वबुद्धयाभक्षयतः३, तुच्छोसहिभक्खणय'त्तितुच्छाः-असाराओषधयः-अनिष्पन्न-मुद्गफलीप्रभृतयः, तद्भक्षणे हि महती विराधना स्वल्पाच तत्कार्य तृप्तिरिति विवेकिनाऽ-चित्ताशिना ताअचित्तीकृत्यनभक्षणीया भवन्ति, तत्करणेनापि भक्षणेऽतिचारोभवति, व्रतसापे-क्षत्वात्तस्येति ५, इह च पञ्चातिचारा इत्युपलक्षणमात्रमेवादसेयं, यतो मधुमद्यमांसरात्रिभोजना-दिव्रतिनामनाभोगातिक्रमादिभिरनेके ते सम्भवन्तीति॥ 'कम्मओण'मित्यादि, कर्मतो यदुपभोगव्रतं 'खरकर्मादिकं कर्म प्रत्याखायमि' इत्येवंरूपं तत्र श्रमणोपासकेन पञ्चदशकर्मादानानि वर्जनीयानि, 'इङ्गालकम्मे'त्ति अङ्गारकरणपूर्वकस्ताद्विक्रयः,एवं यदन्यदपि वह्निसमारम्भपूर्वकंजीवनमिष्टकाभाण्डकादिपाकरूपंतदङ्गरकर्मेति ग्राह्यं, समानस्वभावत्वात्, अतिचारता चास्य कृतैतपत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति, एवं सर्वत्र भावना काय्या १, नवरं 'वनकर्म वनस्पतिच्छेदनपूर्वकंतद्विक्रयजीवनं २, शकटकर्म' शकटानां घटनविक्रयवाहनरूपं ३, “भाटककर्म' मूल्यार्थ गन्त्र्यादिभिः परकीयभाण्डवहनं ४, 'स्फोटकर्म' कुद्दालहलादिभिर्भूमिदारणेनजीवनं ५, ‘दन्तवाणिज्य हस्तिदन्तशङ्खपूतिकेशादीनां तत्कर्मकारिभ्यःक्रयेण तद्विक्रयपूर्वकंजीवनं ६, लाक्षावाणिज्यसञ्जातजीवद्रव्यान्तरविक्रयोपलक्षणं ७, रसवाणिज्यं सुरादिविक्रयः ८, विषवाणिज्यं जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणं ९, 'केशवाणिज्यं केशवतांदासगवोष्ट्रहस्त्यादिकानां विक्रयरूपं १०, 'यन्त्रपीडनकर्म यन्त्रेण तिलेक्षप्रभृतीनां यत्पीडनरूपं कर्म तत् ११, तथा 'निलाञ्छनकर्म'वर्धितककरणं १२, दवाग्नेःवनाग्नेर्दानं-वितरणं क्षेत्रादिशोधननिमित्तंदवाग्निदानमिति १३, सरोहदतडागपरिशोपणता'तत्र सरः-स्वभावनिष्पन्नं-इदो नद्यादीनांनम्नतरःप्रदेशःतडाग-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानं एतेषां गोधूमादीनां वपनार्थं १४, ‘असतीजनपोषणता' असतीजनस्य-दासीजनस्य पोषणं तद्भााटिकोपजीवनार्थं यत्तत् तथा, एवमन्यदपि क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेवेति १५! ___ “कन्दप्पे'त्ति कन्दर्पः-कामस्तद्वेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रं मोहोद्दीपकं नर्मेति भावः, अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतस्य सहसाकारादिनेति १, 'कुक्कुइए'त्ति कौत्कुच्यम् अनेकप्रकारामुखनयनादिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनाक्रिया, अयमपि तथैव२, मोहरिएत्तिमौख्य धाष्र्यप्रायमसत्यासम्बद्धप्रलापित्वमुच्यते, अयमातिचारःप्रमादव्रतस्यपापकर्मपदेशव्रतस्य वाऽनाभोगादिनैव ३, 'संजुत्ताहिगरणे'त्ति संयुक्तम्-अर्थक्रियाकरणक्षममधिकरणम्-उद्खलमुशलादि, तदतिचारहेतुत्वादतिचारो हिंसप्रदाननिवृत्तिविपयः, यतोऽसौ साक्षाद्यद्यपि हिं शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यक्रियां कुर्वन्ति, विसंयुक्ते तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति ४, 'उवभोगपरिभोगाइरिते'त्ति उपभोगपरिभोगविपयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकादीनि भोजनप्रक्रमे अशनपानादीनि तेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80