Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-२,
२८३ "पुरवरे' ति पुरवरकपाटोपमं 'से' तस्य वक्षः-स्थलं, विस्तीर्णत्वादिति, तथा 'कोष्ठिका' लोहादिधातुधमनार्थं मृत्तिकामयी कुशूलिकातस्यायसंस्थानं तेन संस्थितीतस्य द्वावपिबाहू–भुजौ, स्थूलावित्यर्थः,तथा निसापाहाणे"त्तिमुद्गादिदलनशिलातत्संस्थितौपृथुलत्वस्थूलत्वा-भ्यांद्वावपि अग्रहस्तौ-भुजयोरग्रभूतौ, करावित्यर्थः, तथा 'निसालोढेति शिलापुत्रकः तत्संस्थानसंस्थिता हस्तयोरङ्गुल्यः,स्थूलत्वदीर्घत्वाभ्यां, तथा 'सिप्पिपुडं'ति शुक्तिसम्पुटस्यैकं दलं तत्संस्थानसंस्थितास्तस्य नक्ख' त्तिनखाः हस्ताङ्गुलिसम्बन्धिः, वाचनान्तरेतुइदमपरमधीयते–'अडयालगसंठिओ उरो तस्सरोमगुविलो त्ति अत्र अड्या लगत्ति-अट्टालकः प्राकारावयवः सम्भाव्यते, तत्साधम्यं चोरसःक्षामत्वादिनेति, तथा पहावियपसेवओव्व;'त्तिनापितप्रसेवक इवनखशोधकक्षुरादिभाजनमिव उरसि' वक्षासि 'लम्बेते प्रलम्बमानौ तिष्ठतः द्वावपि तस्य 'स्तनको वक्षोजौ,
तथा 'पोट्ट' जठरं अयःकोष्ठकवत्-लोहकुशूलवतं-वर्तुलं, तथा पानं-धान्यरसंस्कृतं जलं येन कुविन्दाश्चीवराणि पाययन्ति तस्य कलन्दं-कुण्डपानकलन्दं तत्सदशी गम्भीरतया 'से' तस्य नाभिः-जठरमध्यावयवः, वाचनान्तरेऽधीतं 'भग्गकडी विगयवंकपट्टी असरिसा दोवि तस्स फिसगा' तत्र भग्नकटिर्विकृतवक्रपृष्ठः फिसको-पुत्तौ, तथा 'शिक्ककं दध्यादिभाजनानां दोरकमयमाकाशेऽवलम्बनं लोकप्रसिद्धंतसंस्थानसंस्थितं 'से' तस्य नेत्रं-मथिदण्डाकर्षणरज्जुः तहद्दीर्घतया तन्नेत्रं शेफ उच्यते, तथा 'किण्णपुडसंठाणसंठिय'त्ति सुरागोणरूपतण्डुलकिण्वभृतगोणीपुटद्वयसंस्थानसंस्थितावितिसम्भाव्यते, द्वापितस्यवृषणौ–पोत्रकी, तथा जमलकोट्ठिय' त्तिसमतयाव्यवस्तापितकुशृलिकाद्वयसंस्थानसंस्थितौ द्वावपितस्यऊरू-जङ्के, तथा 'अञ्जुणगुटुं' वत्ति अर्जुनः-तृणविशेषस्तस्य गुटुं-स्तम्बस्तद्वत्तस्य जानुनी, अनन्तरोक्तोपमानस्य साधर्म्य व्यनक्ति-कुटिलकुटिले-अतिवक्रे विकृतबीभत्सदर्शने, तथा 'जङ्के' जानुनोरघोवर्तिन्यौ 'कक्खडीओ'त्ति कठिने, निर्मासे इत्यर्थः, तथा रोमभिरुपचिते, तथा अघरी-पेषणशिला तत्संस्थानसंस्थितौ द्वावपि तस्य पादौ, तथा अधरीलोष्टः-शिलापुत्रकः तत्संस्थानसंस्थिताः पादयोरगुल्यः, तथा शुक्तिपुटसंस्थिताः ‘से' तस्य पादाङ्गुलिनखाः।।
केशाग्रानखाग्रं यावद्वर्णितं पिशाचरूपम्, अधुना सामान्येन तद्वर्णनायाह- 'लडहमडहजाणुए त्तिइह प्रस्तावेलडहशब्देन गन्त्र्याः पश्चाद्भागवर्तितदुत्तराङ्गरक्षणार्थयत्काष्ठंतदुच्यते, तच गत्र्यांश्लथबन्धनं भवति, एवं च श्लथसन्धिबन्धनत्वाल्लडह इव लडहे मडहेच स्थूलत्वाल्पदीर्धत्वाभ्या जानुनी यस्य तत्तथा, विकृते-विकारवत्यौ भग्ने--विसंस्थुलतया भुग्ने-बक्रे ध्रुवी यस्य पिशाचरूपस्य तत्तथा, इहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते- 'मसिमूसगमहिसकालए' मषीमूषिकामहिपवत्कालं 'रियमेहवण्णे' जलभृतमेघवर्णं कालमेवेत्यर्थः, 'लम्बोढे निग्गयदन्ते' प्रतीतमेव, 'अवदारिए'त्ति तथा 'अवदारितं' विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा, तथा निललिता' निष्काशिताअग्रजिह्वा-जिह्वाया अग्रभागोयेन तत्तथा ततःकर्मधारयः, तथा शरटैः-कृकलासैः कृता मालिका-सक्रतुण्डे वक्षसि वा येन तत्तथा,
-तथाउन्दुरमालया-मूषिकजा परिणद्धं परिगतं सुकृतं-सुष्ठुरचितंचिह्न-स्वकीयलाञ्छनं येन तत्तथा तथा, नकुलाभ्यां-गभ्रुभ्यां कृते कर्णपूरे-आभरणविशेषौ येन तत्तथा, तथा सर्पाभ्यां कृतं वैकक्षम्-उत्तरासङ्गो येन तत्तथा, पाठान्तरेण 'मूसगकयभुंभलए विच्छुयकयवेगच्छे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80