Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उपासकदशाङ्गसूत्रम् २/२१
महद्माजनं तद्गोकिलचं यदुच्यते तस्याधोमुखीकृतस्य यत्संस्थानं तेन संस्थितं, तदाकारमित्यर्थः, पुस्ताकान्तरे विशेषणान्तरमुपलभ्यते विगयकप्पयनिभं ति विकृतो योऽलञ्जरादीनां कल्प एव कल्पकः-- खण्डं कर्परमिति तात्पर्यं तन्निभं तत्सदशमिति, क्वचित्तु 'वियहकोप्परनिभं' ति दृश्यते, तञ्चोपदेशगम्यं, 'सालिमसेल्लसरिसा' व्रीहिकणिशशूकसमाः,
'से' तस्या 'केसा' वालाः, एतदेव व्यनक्ति- 'कविलतेएणं दिप्पमाणा' पिङ्गलदीप्तया रोचमानाः 'उट्टियाक मल्लसंठाणसंठियं उष्ट्रिका मृण्मयो महाभाजनविशेषस्तस्याः कमल्लं - कपालं तस्य यत्संस्थानं तत्संस्थितं, 'निडालं' ति ललाटं, पाठान्तरे 'महल्लउट्टियाकभल्लसरिसोवमे' महोष्ट्रिकायाकभल्लसदशमित्येवमुल्लेखेनोपमा-उपमानवाक्यं यत्र तत्तथा, 'मुगुंसपुंछं व' भुजपरिसर्पविशिषो मुसा सा च खाडहिल्लत्ति सम्भाव्यते, तत्सुच्छवत्, 'तस्ये 'ति पिशाचरूपस्य 'भुमगाओ 'त्ति ध्रुवौ, प्रस्तुतोपमार्थमेव व्यनक्ति
२८२
'फुग्गफुग्गाओ' त्ति परस्परासम्बद्धरोमिके विकीर्णविकीर्णरोमिके इत्यर्थः, पुस्तकान्तरे तु 'जडिलकुडिलाओ' त्ति प्रतीतं 'विगयबीभच्छदंसणाओ' त्ति विकृतं बीभत्सं च दर्शनं रूपं ययोस्ते तथा, 'सीसघडिविणिग्गयाणि' शीर्षमेव घटी तदाकारत्वात् शीर्षघटी तम्या विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवस्तितत्वात् 'अक्षिणी' लोचने, विकृतबीभत्सदर्शने प्रतीतं, कर्णी श्रवणी यथा शूर्पकर्त्तरमेव- शूर्पखण्डमेव नान्यथाकारौ, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव 'उरब्म- पुडसन्निभा' उरभ्रः ऊरणस्तस्य पुढं नासापुटंतत्सन्निभा - तत्सध्शी नासा - नासिका, पाठान्तरेण - 'हुरब्मपुडसंठाण संठिया' तत्र हुरब्भ्रा - वाद्यविशेषस्तस्याः पुटं - पुष्करं तत्संस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः 'झुसिर' त्ति महारन्ध्रा 'जमलचुल्लीसठाणसंठिया' यमलयो:समस्थितद्वयरूपयोः चुपल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे - नासिकाविवरे,
वाचनान्तरे 'महल्लकुब्बसंठिया दोऽवि से कवोला' तत्र क्षीणमांसत्वादुननतास्थित्वाच्च 'कुब्बं 'ति निम्नं क्षाममित्यर्थः, तत्संस्थितौ द्वावपि 'से' तस्य 'कपोली' गण्डौ तता 'घोडय'त्ति घोटकपुच्छवद्-अश्ववालधिवत्तस्य - पिशाचरूपस्य ' श्मश्रूणि' कूर्धकेशाः, तथा 'कपिलकापिलानि' अतिकडाराणि, विकृतानीत्यादि तथैव, पाठान्तरेण घोडयपुंछं व तरस कविलफरुसाओ 'उद्धलोमाओ दाढियाओ' तत्र परुषे-कर्कशस्पर्शे ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिकेउत्तरौष्ठरोमाणि, 'ओष्ठौ' दशनच्छदौउष्ट्रस्येव लम्बी- प्रलम्बमानी,
पाठान्तरेण 'उट्ठा से घोडगस्स जहा दोऽवि लम्बमाणा' तथा फाला - लोहमयकुशाः तत्सध्शा दीर्घत्वात् 'से' तस्य 'दन्ता' दशनाः, जिह्वा यथा शूर्पकर्त्तरमेव, नान्यथाकारा, विकृतेत्यादि तदेव, पाठान्तरे 'हिङ्गुलुययाउकन्दरबिलं व तस्स वयणं' इति दृश्यते, तत्र हिङ्गुलुको वर्णद्रव्यं तद्रूपो धातुर्यत्र तत् तथाविधं यत्कन्दरबिलं - गुहालक्षणं रन्ध्रेतदिय तस्य वदनं, 'हलकुद्दालं' हलस्योपरितनो भागः तत्संस्थिते - तदाकारे अतिवक्रदीर्घे 'से' तस्य 'हणुय' त्ति दंष्ट्राविशेषौ, 'गल्लकडिल्लं च तस्स' त्ति गलू एव - कपोल एव कडिल्लं मण्डकादिपचनभाजनं गल्लकडिल्लं, चः समुच्चये, 'तस्य; ' पिशाचरूपस्य 'खड्ड' त्ति गर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुट्टं' ति विदीर्णं, अनेनैव साधम्येण कडिल्लमित्युपमानं कृतं, 'कविलं' ति वर्णतः 'फरुसं' ति स्पर्शतः 'महल्लं' ति बहत्, तथा मृदङ्गाकारेण - मर्दलाकृत्या उषमा यस्य स मृदङ्गाकारोपमः ' से' तस्य स्कन्धः - अंशदेशः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80