Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 19
________________ २७२ उपासकदशाङ्गसूत्रम् १/९ द्वी, नवरमुखारः - पुरिषं, स्रवणं, मूत्रं तयोर्भूमिः स्थण्डिलम् ३, ४, एते चत्वारोऽपि प्रमादितयाऽतिचाराः, पोसहोववासस्स सम्म अननुपालणय' त्ति कृतपोषधोपवासस्यास्थिर चित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलषणादननुपालना पोषधस्येति, अस्य घातिचारत्वं भावतो विरतेर्बाधितत्वादिति ॥ ‘अहासंविभागस्से’ति अहत्ति - यथासिद्धस्य स्वार्थं निर्वर्तितस्येत्यर्थः, अशनादेः समिति - सहतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनं साधवे दानद्वारेण विभागकरणं यथासंविभागः तस्य, 'सचित्तनिक्खिवणये' त्यादि सचित्तेषु व्रीह्मादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणं १, एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानं २, 'कालातिक्रमः' कालस्यसाधुभोजनकालस्यातिक्रमः - उल्लङ्घनं कालातिक्रमः, अयमभिप्रायः, कालमूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयंददाति एवं विकल्पतो दानार्थभ्युत्थानमतिचार इति ३, तथा 'परव्यपदेशः' परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेकत्तदा कथमस्मभ्यं न दद्याद् ? इति साधुसम्प्रत्ययार्थम् भणनं, अथवा अस्माद्दानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति ४, 'मत्सरिता' अपरेणेदं दत्तं किमहं तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवंरूपो दानप्रवर्तकविकल्पो मत्सरिता ५, एते चातिचारा एव, न भङ्गाः, दानार्थमभ्युत्थानाद् दानपरिणतेश्च दूषितत्वाद्, भङ्गस्वरूपस्य चेहैवमभिधानाद्, यथा ॥ १ ॥ दानन्तरायदोसा न देइ दिजन्तयं च वारेइ । दिन्ने वा परितप्पइ इति किवणत्ता भवे भङ्गो ॥ आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेषेऽस्माभिरवबुद्धः केवलमिह भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः सम्प्रदायात् नवपदादिषु तथा दर्शनात्, ॥२॥ जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जया जह अइयारा भङ्गा तह भावणा नेया ॥ इत्यस्या आवश्यकचूण्य पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे प्रायो ऽप्रसिद्धत्वाच्च ततो ने शङ्कनीयं य एतेऽतिचारा उक्तास्ते भङ्गा एवेति, तथा य एते प्रतिव्रतं पञ्चपञ्चातिचारास्त उपलक्षणमतिचारान्तराणामसेया न त्ववधारणं, यदाहुः पूज्याः“पञ्चे पञ्चाइयारा उ, सुत्तम्मि जे पदंसिया । ॥१॥ ते नावहारणट्ठाए, किन्तु ते उवलक्खणं ॥” इति, इदं चेह तत्त्वं - यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्या । अथ सर्वविरतावेवातिचारा भवन्ति, देशाविरतौ तु भङ्गा एव, यदाह"सव्वेऽवि य अइयारा सञ्जलणाणं तु उदयओ हुन्ति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं ।।" अत्रोच्यते, इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादि For Private & Personal Use Only www.jainelibrary.org ॥ १ ॥ Jain Education International

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80