Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-१,
२७१
यदतिरिक्तम्- अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तं, तदुपचारादतिचारः, तेन ह्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादव्रतस्यैवातिचार इति ५। उक्ता गुणव्रतातिचाराः, अथ शिक्षाव्रतानां तानाह_ 'सामाइयस्स' त्ति समो--रागद्वेष- वियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आय:प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनतचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोषमानांलाभः समायः सःप्रयोजनम-स्यानुष्ठानस्येति सामायिकंतस्य-सावद्ययोगनिषेधरूपस्य निरवद्ययोगप्रतिषेधस्वभावस्य च 'मणदुप्पणिहाणे'त्तिमनसोदुष्टं प्रणिधानं प्रयोगोमनोदुष्प्रणिधानं कृतसामायिकस्यगृहेतिकर्मव्य-तायांसुकृतदुष्कृतपरिचिन्तनमितिभावः १, वयदुप्पाणिहाणे'त्ति कृतसामायिकस्यनिष्ठुरसाव-द्यवाक्प्रयोगः २, कायदुप्पणिणे'त्ति कृतसामायिकस्याप्रत्युपेक्षितादीभतलादौ करचरणादीनां देहावयवानामनिभतस्थापनमिति ३, 'सामाइयस्ससइअकरणय' त्ति सामायिकस्य सम्बन्धिनी या स्मृतिः-अस्यां वेलायां मया सामायिकं कर्तव्यं, तथा कृतं तन्न वा इत्येवंरूपं स्मरणं, तस्याः प्रबलप्रमादतयाऽकरणं स्मृत्यकरणं ४, अणवट्टियरस करणय'त्ति अनवस्थितस्य अल्पकालीन-स्यानियतस्य वा सामायिकस्य करणमनवस्थितकरणम्, अल्पकाल करणानन्तरमेव त्यजति यथाकथञ्चिद्वा तत्करोतीति भावः ५, इह चाद्यत्रयस्यानाभोगादिनातिचारत्वम् उतरद्वयस्य तु प्रमादवहुलतयेति॥
'देसावगासियस्स'त्ति दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशो देशस्तस्मिन्नवकाशोगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिक-पूर्वगृहीतदिग्वतसङ्केपरूपंसर्वपव्रतसङ्ग्रेपरूपं चेति, 'आणवणप्पओगे'त्ति इह विशिष्यावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यःसचित्तादिद्रव्यानयनेप्रयुज्यते सन्देशकप्रदानादिनात्वयेदमानेयम् इत्यानमयनप्रयोगः १, 'पेसवणप्पओगे' बलाद्विनियोज्यःप्रेष्यस्तस्य प्रयोगो,यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् "त्वयाऽवश्यमेव तत्र गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यम्" इत्येवंभूतः प्रेष्यप्रयोगः २, 'सद्दाणुवाए'त्ति स्वगृहवृत्तिप्राकारद्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगावृत्तिप्राकारादिप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं तसभ्युत्काशितादिशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातः,शब्दस्यानुपातनम्-उच्चारणंतादग्येन परकीयश्रवणविवरमनुपतत्यसाविति ३, 'रूवाणुवाए'त्ति अभिगृहीकतदेशाद्वहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां स्वसमीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपातः ४ बहियापोग्गलपक्खेवेत्ति अभिगृहीतदेशाद्वहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्वादिपुद्गलप्रक्षेप इति भावना ५, इह चाद्यद्वयस्यानाभोगादिनाऽतिचारत्वं इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥
'पोसहोववासस्स'त्तिइह पोषधशब्दोऽष्टम्यादिपर्वसुरूढः, तत्र पोषधे उपवासः पोषधोपवासः, सचाहारादिविषयभेदाच्चतुर्विध इतितस्य, अप्पडिलेहियेत्यादिअप्रत्युपेक्षितो-जीवरक्षार्थं चक्षुषा न निरीक्षित; 'दुष्प्रत्युपेक्षितः' उद्भ्रान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः शय्या- शयनं तदर्थं समस्तारकः-कशकम्बलफलकादिः शय्यासंस्तारकः ततः पदत्रयस्य कर्मधारये भवत्यप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारकः, एतदुषभोगस्यातिचारहेतुत्वादयमतिचार उक्तः १, एवमप्रभार्जितदुष्प्रमार्जितशय्यासंस्तारकोऽपि नवरंप्रमार्जनंवसनाञ्चलादिना २, एवमितरी
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/53fc65f09a2533f01a49a1129ebc63b66221836fe307d2269492a823cc6f3be2.jpg)
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80