Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२६८
उपासकदशाङ्गसूत्रम् १/९
सन्धानकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आधत्रयान्तविऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रियमयोर्भेदेनोपादानं द्रष्टव्यमिति ।
तेनाहडे' ति स्तेनाहृतं-चौरानीतं, तत्सममिति लोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात्स्तेनाहृतमित्यतिचार उक्तः, अतिचारताचास्य साक्षाच्चौर्याप्रवृत्तेः १, 'तक्करप्पओगे'त्ति तस्करप्रयोगश्चौरव्यापारणं, 'हरत यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिवारताऽनाभोगादिभिरिति२,'विरुद्धरजाइक्कमे तिविरुद्धनृपयो राज्यंतस्यातिक्रमःअतिलङ्घनं विरुद्धाराज्यातिकम न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति ३, 'कूडतुलकूडमाणे त्ति तुला-प्रतीता मानकुडवादि कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरति व्रतमिति अतिचारहेतुत्वा-दतिचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वं चास्यानाभोगादेः,अथवा 'नाहं चौरः क्षत्रखन- नादेरकरणात्' इत्यभिप्रायेण व्रतसापेक्षत्वात् ४, 'तप्पडिरूवगववहारे' त्ति तेन-अधिकृतेन प्रतिरूपकं-सशंतत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तप्रतिरूपकव्यवहारः, यद्यत्रघटतेव्रीहिघृतादिषुपलजीवसादितस्यप्रक्षेपइतियावत्, तत्प्रतिरूपकेन वा वसादिना व्यवहरणंतप्रतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् ५। _ 'सदारसंतोसीए'त्ति स्वदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहियागमणे'त्ति इत्वरकालपरिगृहीता कालशब्दलोपादित्वपरिगृहीता-भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं-मैथुनासेवनमित्वरपरिगृहीतागमनं, अतिचारताचास्यातिक्रमादिभिः १, 'अपरिग्गहियागमणे'त्तिअपरिगृहीतानामवेश्याअन्यसत्कपरिगृहीतभाटिका कुलाङ्गना वाअनाथेति, अस्याप्यातिचारताऽतिक्रमादिभिरेव २, अनङ्गकीडत्तिअनङ्गानिमैथुनकमपिक्षया कुचकुक्षोरुवदनादीनितेषुक्रीडनमनङ्गक्रीडा, अतिचारताचास्यस्वदारेभ्योऽन्यत्रमैथुनपरिहारेणानुरागादालिङ्गनादि विदघतोव्रतमालिन्यादिति ३, परविवाहकरणे'त्तिपरेषाम् आत्मनआत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणं, अयमभिप्रायः-स्वदारसन्तोषिणो हिन युक्तःपरेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोधततयाऽतिचारोऽयमिति ४, कामभोगतिव्वाभिलासे त्तिकामौ-शब्दरूपे भोगा:गन्धरसस्पर्शास्तेषु तीव्राभिलाषः-अत्यन्तं तदध्यवसायितं कामभोगतीव्राभिलाषः, अयमभिप्रायः-स्वदारसन्तोषी हि विशिष्टविरतिमान्, तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति, यस्तु वाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्चतामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुनविरतिव्रतं परमार्थतो मलिनयति, को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीव्राभिलाषस्येति ५
'खेतवत्थुपमाणाइक्कमे त्तिक्षेत्रवस्तुनःप्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतमानोल्लङ्घनमित्यर्थः, एतस्य चातिचारत्वमनाभोगादिनाऽतिक्रमादिना वा,अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १, हिरण्णसुवण्णपमाणाइक्कमे तिप्राग्वत्, अथवा राजादेःसकाशाल्लब्धं हिरण्याद्यभिग्रहावधिं यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूर्ती ग्रहीष्यामि' इत्यव्यवसायवतोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/190febe8c26c92229b2e8ea957a9b0846e2775d87eae929415e606056ffcfeb5.jpg)
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80