________________
१७४
स्थानाक्षसूत्रम् ३/४/२०७
वृ.तिविहे इत्यादि, एकोऽर्थ उच्यतेऽनेनोक्तितिवचनमेकस्यार्थस्य वचनमेकवचनमेवमितरेअपि, अत्र क्रमेणोदाहरणानि-देवोदेवी देवाः ।वचनाधिकारे अहवेत्यादि सूत्रद्वयं सुबोधम्, उदाहरणानितु स्त्रीवचनादीनांनदीनदः कुण्डं, तीतादीनां कृतवान् करोति करिष्यति।वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थानकेऽवतारायन्नाह
मू. (१०८)तिविहा पन्नवणा पं० २०-नाणपत्रवणा दंसणपत्रवणा चरित्तपन्नवणा १, तिविधेसम्मे पं० २०-नाणसम्मे दंसणसम्मे चरित्तसम्मे २,तिविधेउवधाते पं० २०-उग्गमोवधाते उप्पायणोवघाते एसणोवधाते ३, एवं विसोही ४
वृ.'तिविहे त्यादि सूत्राणामेकोनविंशतिः, स्पष्टा चेयं, परंप्रज्ञापना-भेदायभिधानं, तत्र ज्ञानप्रज्ञापना-आभिनिबोधिकादिपञ्चधाज्ञानम्, एवंदर्शनंक्षायिकादि त्रिधा, चारित्रंसामायिकादि पञ्चधेति, समञ्चतीति सम्यक्-अविपरीतं मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीनि, उपहननमुपघातः, पिण्डशय्यारदेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकदियः षोडश दोषाः, उक्तं च--
"तत्थुग्गमो पसूई पभवो एमादि होति एगट्ठा ।
___ सो पिंडस्सिह पगओ तस्स य दोसा इमे होति ॥२॥ आहाकम्मु १ देसिय २ पूइकम्मे य ३ मीसजाए य ४ !
ठवणा ५ पाहुडियाए ६ पाओयर ७ कीय ८ पामिच्चे ९ ॥३॥ परियट्ठिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे इय १३ ।
अच्छेने १४ अनिसट्टे १५ अज्झोयरए य १६ सोलसमे " इति, इहचाभेदविवक्षया उद्गमदोषाएवोद्गमः अतस्तेनोद्गमेनोपघातः-पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमुद्गमोपघातः, उद्गमस्य वा-पिण्डादिप्रसूतेरुपघातःआघाकर्मत्वादिभिर्दुष्टताउद्गमोपघातः, एवमितरावपि, केवलमुत्पादना-सम्पादनंगृहस्थापिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादयः षोडश, यदाह॥१॥ "उप्पायण संपायण निव्वत्तणमो य होंति एगट्ठा।
आहारस्समिए पगया तीय य दोसा इमे होति ॥२॥ धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य६।
कोहे ७ माणे ८ माया ९ लोभे य १० हवंति दस एए ॥३॥ पुट्विं पच्छा संथव ११ विजा १२ मंते य १३ चुन्न १४ जोगे य १५ ।
उप्पायणाय दोसा सोलसमे मूलकम्मे य" इति, - तथा एषणा-गृहिणा दीयमानपिण्डादेहणं तद्दोषाः शङ्कितादयो दशेति, आह च॥१॥ “एसणगवसणन्नेसणाय गहणंच होति एगट्ठा ।
आहारस्सिह पगया तीय य दोसा इमे होति ॥२॥संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६म्मीसे७।
अपरिणय ८ लित्त ९छड्डिय १० एसणदोसा दस हवंति"
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org