Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं-१०,
५४९
आख्यापयति सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयतिप्रतिसूत्रमर्थकनेनदर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियैभिरैरुपात्ता इत्थं क्रियत इति भावना, निदंसेइत्ति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनर्दर्शयति निदर्शयति ‘उवदंसेइ'त्ति सकलनयुक्तिभिरिति ३,
'चाउव्वण्णाइण्णे'त्तिचत्वारो वर्णाः-श्रमणादयः समाहृता इति चतुर्वर्णं तदेव चातुर्वण्यं तेनाकीर्ण:-आकुलश्चातुर्वण्याकीर्ण अथवाचत्वारोवर्णाः-प्रकारायस्मिनेसतथा, दीर्घत्वंप्राकृत्वात्, चतुर्वर्णश्वासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णासीर्णः, 'चउविहे देवे पन्नवेइ'त्ति वन्दनकुतूहलादिप्रयोजनेनागतान प्रज्ञापयति-जीवाजीवादीनपदार्थान्बोधयति-सम्यकत्वंग्राहयति शिष्यीकरोतीतियावत्, लोलेभ्योवातान्प्रकाशयति, 'अनंते' इत्यादौ सूत्रेयावत्करणात् 'निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, 'सदेवे'त्यादि, सह देवैः
वैमानिकज्योतिष्कैर्मनुजैः-नरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्तत इति सदेवमनुजासुरस्तत्र लोकेत्रिलोकरूपे 'उराल'त्ति प्रधानाकीर्तिः-सर्वदिग्व्यापी साधुवादः वर्ण:
एकदिग्व्यापी शब्द:-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाधा एषां द्वन्द्वः तत एते 'परिगुब्वंति परिगुप्यन्ति व्याकुलीभयन्तिसततंभ्रमन्तीत्यर्थः,अथवा परिगूयन्ते-गूङ्घातोः शब्दार्थत्वात् संशब्धते इत्यर्थः, पाठानन्तरतः परिभ्राम्यन्ति, कथमित्याह-'इति खल्वि'त्यादि, इतिःएवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वेबोधकभाषाभाषी सर्वजगजीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः, महावीर' इति नाम, एतदेवावत्यतेश्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, 'आघवेई त्यादि पूर्ववत् ।
स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह
मू. (९६२) दसविधे सरागसम्मइंसणे पन्नत्ते, (तं०)मू. (९६३) निसग्गु १ वतेसरुई २ आणरुता ३ सुत्त ४ बीतरुतिमेव ५।
अभिगम ६ वित्थाररूती ७ किरिया ८ संखेव ९ धम्मरुती १०॥ वृ. 'दसविहे'त्यादि, सरागस्य-अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा सरागंच तत्सम्यग्दर्शनं चेति विग्रहः सरागसम्यग्दर्शनमस्येति वेति, निसग्ग गाहा, रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतोवारुचिरिति निसर्गरुचिः,योहिजातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह-- ॥१॥ “जो जिणदिढे भावे चउबिहे सद्दहाइ सयमेव ।
एमेव नन्नहत्ति य निसग्गरुइत्ति नायव्यो ।।" इति तथोपदेशोगुदिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः तत्पुरुषपक्षः स्यवमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान्तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्तेस उपदेशरुचिरितिभावः, यत आह
“एए चेव उ भावे उवइढे जो परेण सद्दहइ। छउमत्येण जिणेण व उवएसरुई मुणेयव्यो ।।" इति
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3055430fadb4d1b1da9a10969da15ded248f7e5468527cb7dd73c798a739d7b7.jpg)
Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596