Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 565
________________ ५६२ स्थानाङ्ग सूत्रम् १०/-/९७८ अपासत्थताते ७ सुसामण्णताते ८ पवयणवच्छल्लयाते ९ पवयणउब्भावणताए १०॥ वृ. 'दसही'त्यादि,आगमिष्यद्-आगामिभवान्तरेभाविभद्रं-कल्याणंसुदेवत्व-लक्षणमनन्तरं सुमानुषत्वाप्राप्तया मोक्षप्राप्तिलक्षणंच येषांते आगममिष्यद्भद्रास्तेषां भावः आगममिष्यद्भद्रता तस्यै आगममिष्यद्भद्रतायैतदर्थमित्यर्थः आगमिष्यद्भद्रतया वा कर्म-शुभ-प्रकुर्वते-बध्नन्ति, तद्यथा-निदायते-लूयते ज्ञानाधाराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानं अविद्यमानंतद्यस्य सोऽनिदानस्तद्भावस्तत्ता तया हेतुभूतया निरुत्सुकतयेत्यर्थः १, । दृष्टिसम्पन्नतया-सम्यग्दृष्टितया २, योगवाहितया-श्रुतोपधानकारितया योगेनवासमाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशील योगवाही तद्भावलस्तता तया ३, क्षान्त्या क्षमत इति क्षान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थं यतोऽसमर्थोऽपि क्षमत इति क्षान्तिक्षमणस्य भावस्तत्ता तया ४, जितेन्द्रियतयाकरणनिग्रहेण ५, ___ 'माइलयाए'त्तिमाइलो-मायावांस्तप्रतिषेधेनामायावांस्तभावस्तत्तोतया ६, तथा पार्श्वेबहिर्जानादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं च॥१॥ “सो पासत्थो दुविहो देसे सब्वे य होइ नायव्यो । सव्वंमि नाणदंसणचरणाणं जो उ पासत्यो । देसंमि उपासत्थो सेजायरभिहडनीयपिडं च । नीयं च उग्गपिंडं भुंजइ निक्कारणे चेव ॥" इत्यादि, नियतपिण्डो यथा-मयैतावद्दातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते 'नीय'मिति नित्यः सदाअग्रपिण्डः अप्रवृत्ते परिवेषणे आदावेवयोगृह्यत इति पार्श्वस्थस्य भावः पार्श्वस्थता नसाऽपार्श्वस्थता तया ७, तथा शोभनः-पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च-साधुः सुश्रमणस्तद्भावस्तत्ता तया ८। तथा प्रकृष्टं प्रशस्तं प्रगतं वा वचनं-आगमः प्रवचन-द्वादशाङ्ग तदाधारो वा सङ्घस्तस्य वत्सलता-हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता तया ९, तथा प्रवचनस्य-. द्वादशाङ्गस्योद्भावन-प्रभावनं प्रावचनिकत्वधर्मकथावादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनं तदेव प्रवचनोद्भावनता तयेति १०॥ . एतानिचागमिष्यद्भद्रताकारणानि कुर्वताआशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह मू. (९७९) दसविहे आसंसप्पओगे पं०-इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ दुहतोलोगासंसप्पतोगे ३ जीवियासंसप्पतोगे ४ मरणासंसप्पतोगे ५ कामासंसप्पतोगे ६ भोगसंसप्पतोगे ७ लाभासंसप्पतोगे ८ पूयासंसप्पतोगे ९ सकारासंसप्पतोगे १०। वृ. 'दसे'त्यादि, आशंसनमाशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं करणं आशंसैव वा प्रयोगो-व्यापारःआशंसाप्रयोगः, सूत्रे च प्राकृतत्वात्आसंसप्पओगेत्ति भणितं, तत्रइह-अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः-प्राणिवर्गः स इहलोकस्तद्वयतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाचक्रवादरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रहः कार्यः १, परलोकाशंसाप्रयोगो यथा भवेयमह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596