Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५७२
स्थानाङ्ग सूत्रम् १०/-/१००२ तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति १,
तथागर्भस्य-उदरसत्त्वस्यहरणं उदरान्तरसङ्कङ्कामणंगर्भहरणंएतदपि तीर्थकरापेक्षयाऽभूतपूर्व सद्भगवतोमहावीरस्य जातं, पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात्रिशलाभिधानाया राजपल्या उदरे सङ्क्रमणाद्, एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति ३,
तथा स्त्री-योषित्तस्यास्तीर्थकरत्वेनोत्पत्रायाः तीर्थ-द्वादशाङ्गं सो वा स्त्रीतीर्थं, तीर्थं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्यदुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पतीर्थं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति ३, __ तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतृलोकः, श्रूयते हि भगवतोवर्द्धमानस्य जृम्भिकग्रामनगराबहिरुत्पन्नकेवलस्य तदनन्तरंमिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्वनिनाकल्पचरिपालनायैव धर्मकथाबभूव, यतोन केनापितत्र विरतिः प्रतिपन्ना, न चैतत्तीर्घकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यमिति ४,
तथा कृष्णस्य-नवमवासुदेवस्य अवरकङ्का राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्य, श्रूयते हि पाण्डवभार्या द्रौपदी घातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्भराजेन देवसामर्थ्येनापहृता, द्वारकावतीवास्तव्यश्च कृष्णो वासुदेवोनारदादुपलब्धतद्वयतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणंजलधिमतिक्रम्य पद्मराजं रणविमर्दैनविजित्य द्रौपदीमानीतवान्, तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णच तदा समुद्रमुल्लङ्घयति स्म, ततस्तेना पञ्चजन्यः पूरितः कृष्णोनापि तथैव ततः परस्परशङ्खशब्दश्रवणमजायतेति ५,।
तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति । मू. (१००३) हरिवंसकुलुप्पत्ती ७ चमरुप्पातो त ७ अट्ठसयसिद्धा९।
अस्संजतेसु पूआ १०, दसवि अनंतेण कालेण ॥ वृ.तथा हरेः-पुरुषविशेषस्यवंशः-पुत्रपौत्रादिपरम्परा हरिवंशस्तल्लक्षणंयत्कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति, श्रूयते हि भरतक्षेत्रापेक्षया यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रेक्षिप्तं, तच्च पुण्यानुभावाद्राज्यं प्राप्तं, ततो हरिवर्षजातहरिनाम्नोपुरुषायो वंशः स तथेति७,
तथा चमरस्य-असुरकुमारराजस्योत्पन-ऊर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरिसौधर्मव्यवस्थितं शक्रंददर्श, ततोमत्सराध्मातःशक्रतिरस्काराहितमतिरिहागत्य भगवन्तंमहावीरंछद्भस्थानवस्थमेकरात्रिकी प्रतिमांप्रतिपनं सुंसुमारनगरोद्यान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596