Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 577
________________ ५७४ स्थानाङ्ग सूत्रम् १०/-1१००६ वृ. द्वीपसमुद्राधिकारात् तद्वतिनक्षत्रसूत्रत्रयमाह-'कत्तिए'त्यादि, इह किल सूर्यस्य चतुरशीत्यधिकंमण्डलशतंभवति चन्द्रस्य पञ्चदश नक्षत्राणां त्वष्टौ, मण्डलंच मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भं, तत्र जम्बूद्वीपस्याशीत्यधिके योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणांद्वे, तथालवणसमुद्रंत्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्य एकोनविंशत्यधिकं सूर्यस्य मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च षट्, एतेषां च सर्वबाह्यं सुमेरोः पञ्चचत्वारिंशति योजनानां सहेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं च चतुश्चत्वारिंशति सहेषु अष्टासु च विंशत्यधिकेषुशतेषु भवतीति, एवंचकृत्तिकानक्षत्रं सर्वबाह्यात् ‘मण्डलाउ'त्तिचन्द्रमण्डलाद्दशमे चन्द्रमण्डले सर्वाभ्यन्तरात्षष्ठ इत्यर्थः 'चारंचरइत्तिभ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्यन्तरात् चन्द्रस्य मण्डलात् दशमे चन्द्रमण्डले सर्वबाह्याषष्ठ इत्यर्थः चारं चरतीति व्याख्यातमेवेति । मू. (१००७) दस नक्खत्ता नाणस्स विद्धिकरा पण्णत्ता, तं० वृ. विद्धिकराईति एतन्नक्षत्रयुक्ते चन्द्रमसि सतिज्ञानस्य-श्रुतानस्योद्देशादिर्यदि क्रियते तदा ज्ञानं समृद्धिमुपयाति-अविघ्नेनाधीयते श्रूयते व्याख्यातते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वात्तस्य, यदाह॥१॥ “उदयक्खयखओवसमोवसमा जंच कम्मुणो भणिया । दव्वं नेत्तं कालं भवेच भावंच संपप्प ।।" इति, मू. (१००८) मिगसिरमद्दा पुस्सो तिन्नि य पुवाई मूलमस्सेसा । हत्थो चित्ता य तहा दस वुद्धिकराई नाणस्य॥ वृतद्यथा 'मिगसिर गाहा कण्ठ्या । द्वीपसमुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह मू. (१००९) चउप्पयथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पन्नता, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पन्नत्ता। वृ. 'चउप्पयेत्यादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति, चतुष्पदस्थलचरास्ते चतेपञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां 'दशेति दशैव, ‘जातौ' पञ्चेन्द्रियजातौ यानि कुलकोटीनां-जातिविशेषलक्षणानां [शतानां] योनिप्रमुखाणि-उत्पत्तिस्थानद्वारकाणि शतसहस्राणि-लक्षाणि तानि तथा प्रज्ञप्तानि सर्वविदा, तत्र योनिर्यथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थानं, कुलानि तत्रैकत्रापि द्वीन्द्रियाणांकृम्याद्यनेकाकाराणि प्रतीतानीति, तथा उरसा-वक्षसा परिसर्पन्ति-सञ्चरन्तीत्युरः परिसप्पस्तेि च ते स्थलचराश्चेत्यादि तथैव ॥ जीवविषयं दशस्थानकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह-- मू.(१०१०)जीवाणं दसठाणनिव्वत्तिता पोग्गले पावकम्मताए चिणिंसुवा ३, तंजहापढेमसमयएगिदियनिव्वत्तिएजाव फासिंदियनिव्वत्तिते, ‘एवं चिण उवचिण बंधउदीर वेय तह निजरा चेव'। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596