Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 563
________________ ५६० प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति । तथा प्रभावती - चेटकदुहिता वीतभयनगरनायकोदायनमहाराजभार्या यया जिनबिम्बपूजार्थं स्नानान्तरं चेट्या सितवसनापणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च ततो वैराग्यादनशनं प्रतिपद्य देवतया यया बभूवे, यया चोज्जयिनीराजं प्रति विक्षेपेण प्रस्तितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्त सैन्यस्योदायनमहारा जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्करकरणेनोपकराऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमं, स्थानाङ्ग सूत्रम् १०/-/९७५ तथा बहुपुत्रिकादेवी प्रतिबद्धं सैवाध्ययनमुच्यते, तथाहि राजगृहे महावीरवन्दनार्थं सौधर्माद्बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्टे गौतमेन भगवानवादीत्-वाराणस्यां नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा चवन्ध्या पुत्रार्थिनी भिक्षार्थीमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ स च धर्म्ममचकथत् प्राव्राजीच, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तनापरायणा सातिचारा मृत्त्वा सौधर्म्ममगमत्, ततश्च्युत्वा च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च, सा षोडशभिर्वर्षैः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्म्म कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति । तथा स्थविरः सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्यनानां पुनरयमर्थ:- 'खुड्डिए' त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिकाविमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य- आचारादेश्शूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्राहिका चूलिका । 'वग्गचूलिय ' त्ति इह च वर्गः- अध्ययनादिसमूहो, यथा अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका | 'विवाहचूलिय'त्ति व्याख्या -भगवती तस्याश्च लिका व्याख्याचूलिका, 'अरुणोपपात' इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदाऽसावरुणो देवः स्वसमयनिबद्धत्वाञ्च्चलितासनः सम्भ्रमोन्द्रान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया द्युत्या दिव्यया गत्या यत्रैवासी भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनोविमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुध्यमानध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति सुस्वाध्यायितं सुस्वाध्यायितमिति, वरं वृणीष्व २ इति, ततोऽसाविहलोकनिष्पिन्नपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः श्रवणः प्रतिभणति न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्यित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596