________________
५६०
प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति ।
तथा प्रभावती - चेटकदुहिता वीतभयनगरनायकोदायनमहाराजभार्या यया जिनबिम्बपूजार्थं स्नानान्तरं चेट्या सितवसनापणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च ततो वैराग्यादनशनं प्रतिपद्य देवतया यया बभूवे, यया चोज्जयिनीराजं प्रति विक्षेपेण प्रस्तितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्त सैन्यस्योदायनमहारा जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्करकरणेनोपकराऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमं,
स्थानाङ्ग सूत्रम् १०/-/९७५
तथा बहुपुत्रिकादेवी प्रतिबद्धं सैवाध्ययनमुच्यते, तथाहि राजगृहे महावीरवन्दनार्थं सौधर्माद्बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्टे गौतमेन भगवानवादीत्-वाराणस्यां नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा चवन्ध्या पुत्रार्थिनी भिक्षार्थीमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ स च धर्म्ममचकथत् प्राव्राजीच, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तनापरायणा सातिचारा मृत्त्वा सौधर्म्ममगमत्, ततश्च्युत्वा च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च, सा षोडशभिर्वर्षैः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्म्म कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति ।
तथा स्थविरः सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्यनानां पुनरयमर्थ:- 'खुड्डिए' त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिकाविमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य- आचारादेश्शूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्राहिका चूलिका ।
'वग्गचूलिय ' त्ति इह च वर्गः- अध्ययनादिसमूहो, यथा अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका |
'विवाहचूलिय'त्ति व्याख्या -भगवती तस्याश्च लिका व्याख्याचूलिका, 'अरुणोपपात' इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदाऽसावरुणो देवः स्वसमयनिबद्धत्वाञ्च्चलितासनः सम्भ्रमोन्द्रान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया द्युत्या दिव्यया गत्या यत्रैवासी भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनोविमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुध्यमानध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति सुस्वाध्यायितं सुस्वाध्यायितमिति, वरं वृणीष्व २ इति, ततोऽसाविहलोकनिष्पिन्नपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः श्रवणः प्रतिभणति न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्यित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org