________________
५५९
स्थानं -१०,पर्युषणाकल्पो वेति, स च 'सक्कोसजोयणं विगइनवय'मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति ८,
तीसमित्यादि, त्रिंशन्मोहनीयकर्मणोबन्धस्थानानिन्बन्धकारणानि वारिमजेऽवगाहित्ता, तसे पाणेविहिंसई त्यादिकानितत्रैवप्रसिद्धानिमोहनीयस्थानानि तत्प्रतिपादकमध्ययनंतथैवोच्यत इति ९, 'आजाइट्ठाण मिति आजननमाजातिः-सम्मूर्छनगर्भोपपाततो जन्म तस्याः स्थानंसंसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १० ।।।
प्रश्नव्याकरणदशा इहोक्तरूपा न ४श्यन्ते दृश्यमानास्तुपञ्चाश्रवपञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं ‘पसिणाई'ति प्रश्नविद्याः यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौमकं-वस्त्रं अद्दागो-आदर्शः अङ्गुष्ठोहस्तावयवः बाहवो-भुजा इति॥
बन्धदशानामपि बन्धाद्यध्यनानि श्रौतेनार्थेन व्याख्यातव्यानि ।
द्विगृद्धिदशाश्चस्वरूपतोऽप्यनवसिताः।दीर्घदशाः स्वरूपतोऽनवगताएव, तदध्ययनानि तुकानिचिन्नरकावलिकाश्रुतस्कन्धेउपलभ्यन्ते, तत्रचन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनं, तथाहिराजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच-श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपेच प्रव्रजितो विराध्य च मनाक्श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहेच सेत्स्यतीति, तथा सूरवक्तव्यताप्रतिबद्धं सूरं, सूरवक्तव्यता च चन्द्रवत् ।
नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुक्रो-ग्रहस्तद्वक्तव्यता चैवं-राजगृहे भगवन्तं वन्दित्वा शुक्रेप्रतिगते गौतमस्य तथैव भगवानुवाच-वाणारस्यांसोमिलनामाब्राह्मणोऽयमभवत्, पार्श्वनाधं चापृच्छत्-तेभंते! उवणिज्ज', तथा सरिसवयामासाकुलत्था यतेभोज्जा ? एगेभवंदुवेभव'मित्यादि, भगवता चैतेषु विभक्तेष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकधर्ममस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवजहार, अन्यदाऽसौ यत्र क्वचनगर्तापतिष्यामितत्रैव प्राणांस्त्यक्ष्यमीत्यभिग्रहमभिगृह्य काष्ठमुद्रयामुखंबद्धा उत्तराभिमुखःप्रतस्थौ, तत्रप्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तः-अहो सोमिलब्राह्मणमहर्षे ! दुष्प्रव्रजितं ते, पुनर्वितीयहनि तथैव सप्तपर्णस्याध उषित उक्तः
तृतीयादिषु दिनेष्वश्वत्थक्टोदुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ-कथं नुनाममेदुष्प्रवृजितं?, देवोऽवोचत्-त्वंपार्श्वनाथस्य भगवतः समीपेऽणुव्रतादिकं श्रावकधर्म प्रतिपद्याधुना अन्यथा वर्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रतादिकं धर्मप्रतिपद्यस्व येन सुप्रव्रजितंतवभवतीत्येवमुक्तस्तथैवचकार, ततः श्रावकत्वं प्रतिपाल्यानालोचितप्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति ।
तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि सा राजगृहे महावीरवन्दनाय सौधमादाजगाम, नाट्यदर्शयित्वा प्रतिजगामच, गौतमस्तत्पूर्वभवं पप्रच्छ, भगवांस्तंजगाद-राजगृहे सुदर्शनश्रेष्ठीबभूव प्रियाभिधानाच तद्भार्यातयोःसुताभूतानाम बृहत्कुमारिका पार्श्वनाथसमीपे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org