SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् १० /-/ ९७५ आयरियभासिताई ४ महावीरभासिआइं ५ खोमगपसिणाई ६ कोमलपसिणाइं ७ अद्दागपसिणाई ८ अंगुट्ठपसिणाई ९ बाहुपसिणाई १०-७ । बंधसाणं दस अज्झणा पं० तं०- बंधे १ य मोक्खे २ य देवद्धि ३ दसारमंडलेवित ४ आयरियविप्पडिवत्ती ५ उवज्झातविप्पडिवत्ती ६ भावणा ७ विमुत्ती ८ सातो ९ कम्मे १०-८1 दोगेहिदसाणं दस अच्झवणा पं० तं०-वाते १ विवाते २ उववाते ३ सुक्खित्ते कसिणे ४ बायालीसं सुमिणे ५ तीसं महासुमिणा ६ बावत्तरिं सव्वसुमिणा ७ हारे रामे ९ गुत्ते १० एमेते दस आहिता ९ । दीहदसाणं दस अज्झायणा पं० तं० चंदे १ सूरते २ सुक्के ३ त सिरिदेवी ४ पभावती ५ दीवसमुद्दोववत्ती ६ बहूपुत्ती ८ मंदरेति त ९ थेरे संभूतविजते ८ थेरे पम्ह ९ ऊसासनीसासे १०-१०। ५५८ संखेवितदसाणं दस अज्झयणा पं० तं०-खुड्डिया विमाणपविभत्ती १ महल्लिया विमाणपविभत्ती २ अंगचूलिया ३ वग्गचूलिया ४ विवाहचूलिया ५ अरुणोववाते ६ वरुणोववाए ७ romaard ८ वेलंधरोववाते ९ वेसमणोववाते १०-११ । वृ. आचारदशानामध्ययनविभागमाह- 'आयरे' त्यादि, असमाधिः- ज्ञानादिभावप्रतिषेधोऽप्रशस्ती भाव इत्यर्थः तस्य स्थानानि पदानि असमाधिस्थानानि-यैरासेवितैरात्मपरोभयानामिह परत्र चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः तानि च विंशतिः द्रुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकमध्ययनमसमाधिस्थानानीति प्रथमं, तथा एकविंशतिः 'शबलाः' शबलं - कर्बुरं द्रव्यतः पटादि भावतः सातिचारं चारित्रं, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्म्मप्रकारान्तरमै थुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेवमाना उपाधित एकविंशतिर्भवन्ति तदर्थमध्ययनं एकविंशतिशबला इत्यभिधीयते २, 'तेत्तीसमासायणाउ' त्ति ज्ञानादिगुणा आ-सामस्त्येन शात्यन्ते - अपध्वस्यन्ते यकाभिस्ता आशातना-रत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकास्तत्प्रसिद्धास्त्रयस्त्रिंशद् भेदा यात्राभिधीयन्ते तदध्यनमपि तथोच्यत इति ३, 'अट्ठे' त्यादि, अष्टविधा गणिसम्पत् आचारश्रुतशरीरवचनादिका आचार्यगुणार्द्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते तदध्ययननपि तथोच्यत इति ४, 'दसे' त्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिजायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५, 'एक्कारे' त्यादि, एकादशोपासकानां श्रावकाणां प्रतिमाः प्रतिपत्तिविशेषाः दर्शनव्रतसामायिकादिविषयाः प्ररतिपाद्यन्ते यत्र तत्तथैवोच्यत इति ६, 'बारसेत्यादि, द्वादश भिक्षूणां प्रतिमाः - अभिग्रहा मासिकीद्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते, 'पज्जो' इत्यादि, पर्याया ऋतुबद्धिकाः द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते उज्झयन्ते यस्यां सा निरुक्तविधिना पर्यासवना अथवा परीति-सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना अथवा परिः सर्वथा एकक्षेत्रे जघन्यतः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा तस्याः कल्पः - आचारो मर्यादित्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy