________________
स्थानं-१०,
५५७ तथा दशार्णभद्रोदशाणपुरनगरवासी विश्वंभराविभुः योभगवन्तंमहावीरंदशार्णकूटनागरनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथा न केनापि वन्दितो भगवांस्तथा मया वन्दनीय इति राज्यसम्पदवलेपाभक्तितश्चचिन्तयामास,ततःप्रातःसविशेषकृतस्नानविलेपनाभरणा-दिविभूषः प्रकल्पितप्रधानद्विपपतिपृष्ठाधिरूढोवल्गनादिविविधक्रियाकारिसदर्पसर्पचतुरङ्गसैन्य-समन्वितः पुष्माणवसमुघुष्यमाणागणितगुणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयन् महीमण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं भव्यजननलिनवनविबोधनाभिनवभानुमन्तंमहावीरंवन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्रायंचतन्मानविनोदनोद्यतं कृताष्टमुखेप्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्बद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमारपूरयन्तममरपतिमवलोक्य कुतोऽस्माध्शामीशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपि तं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाङ्गे नाधीतः, क्वचित्सिद्धश्च श्रूयत इति, तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे
पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्न्यादेव्या अतिमुक्तको नाम पुत्रः षड्वार्षिको गौतमं गोचरगतं दृष्ट्वाएवमवादीत्-के यूयं किं वा अटथ ?, ततो गौतमोऽवादीत्-श्रमणा वयं भिक्षार्थं च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गुल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, ततः श्रीदेवी हृष्टाभगवन्तंप्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्यूर्यक वसथ?, भगवानुवाच-भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसंति तत्रवयं परिवसामः, भदन्त! आगच्छाम्यहं भवद्भिः सार्द्ध भगवतोमहावीरस्यपादान्वन्दितुं?,गौतमोऽवादीत्-यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, .
सधर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत्-यथा संसारानिर्विण्णोऽहं प्रव्रजामीत्यनुजानीतंमांयुवां, तावूचतुः-बाल! त्वं किजानासि?, ततोऽतिमुक्तकोऽवादीत्-हे अम्बतात यदेवाहं जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तौ तमवादिष्टांकथमेतत् ?, सोऽब्रवीत्-अम्बतात ! जानाम्यहं यदुत-जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा कियच्चिराद्वा?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवव्राज तपः कृत्वा चसिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस आहिय'त्ति दशाध्ययनान्याख्यातानीत्यर्थः ।
मू. (९७५) आयारदसाणं दस अज्झयणा पं० तं०-वीसं असमाहिट्ठाणा १ एगवीसं सबला २ तेत्तीसं आसायणातो ३ अट्टविहा गणिसंपया ४ दस चिंतसमाहिट्ठाणा ५ एगारस उवासगपडिमातो ६ बारस मिक्खुपडिमातो ७ पञ्जोवसणा कप्पो ८ तीसं मोहणिजट्ठाणा ९ आजाइट्ठाणं १०-६।
पण्हावागरणदसाणं दस अज्झयणा पं० तं०-उवमा १ संखा २ इसिभासियाई ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org