Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानाङ्ग सूत्रम् १०/-/९९६
तथा हापयति पुरुषमिन्द्रियेष्विति- इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनी करोतीति हापयति प्राकृतत्वेन च हायणित्ति, आह च
119 11
“छट्टी उ हायणी नाम, जं नरो दसमस्सिओ । विरजई य कामेसु, इंदिएसु य हायइ ॥” इति
तथा प्रपञ्चते व्यक्तीकरोति प्रपञ्चयति वा विस्तारयति खेलकासादि या सा प्रपञ्चा प्रपञ्चयति वासयति आरोग्यादिति प्रपञ्चा, आह च
119 11
"सत्तमिं च दंस पत्तो, आनुपुव्वीए जो नरो । निच्छूहइ चिक्कणं खलें, खासई य अभिक्खणं ॥” इति तथा प्राग्भारमीषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा, यतः119 11 "संकुचियवलीचम्मो, संपत्तो अट्ठमिं दसं ।
नारीणमणभिप्पेओ, जराए परिणामिओ ॥” इति,
तथा मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखं- आभिमुख्यं यस्यां सा मुङ्मुखीति, तत्स्वरूपं चेदम्
11911
५६८
“नवमी मुंमुही नाम, जं नरो दसमस्सिओ । जराधरे विनस्संते, जीवो वसइ अकामओ ।" इति
तथा शाययति-स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम्
#19 ||
आह
"ही भिन्नस्सरोदीणो. विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसई, संपत्तो दसमिं दसं ।" इति ।
अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत
मू. (९९७) दसविधा तणवणस्सतिकातिता पं० तं०-मूले कंदे जाव पुप्फे फले बीये । वृ. 'दसे' त्यादि, तृणवद्वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्यच बादरत्वेन तेन सूक्ष्माणां न दशविधत्वमिति, मूलं- जटा कन्दः स्कन्धाधोवर्त्ती यावत्करणात् 'खंधे'त्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः - स्थुडमिति यठप्रतीतं त्वक्-वल्कः शाला- शाखा प्रवालं - अङ्कुरः पत्रं - पर्णं पुष्पं-कुसुमं फलं प्रतीतं बीजं - मिंजेति ।
मू. (९९८) सव्वतोवि णं विजाहरसेढीओ दसदसजोयणाइं विक्खंभेण पन्नत्ता, सव्वतोवि णं अभिओगसेढीओ दस दस जोयणाइं विक्खंभेणं पं० ।
बृ. दशस्थानकाधिकार एव इदमपरमाह- 'सव्वे ' त्यादि सूत्रद्वयं, सर्वाः सर्वदीर्घवैताढ्यसम्भवाः विद्याधरश्रेणयः- विद्याधरनगरश्रेणयः, दीर्घवैताढ्या हि पञ्चविंशतिर्योजनान्युच्चैस्त्वेन पश्चाशच्च मूलविष्कम्भेण, तत्र दश योजनानि धरणीतलादतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणय भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरतस्तु षष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत्पञ्चपञ्चाशदिति । तथा विद्याधर श्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेव श्रेणयो भवन्ति, तत्राभियोगः - आज्ञा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7f559d95490aa753cb9e23f740ae7e8f1eadd908c1610476d5f44dcddf9daa48.jpg)
Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596