Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं - १०,
५५३
मू. (९६८) मियापुत्ते १ त गोत्तासे २, अंडे ३ सगडेति यावरे ४ ।
माहणे ५ नंदिसेणे ६त, सोरियत्ति ७ उदुंबरे ८॥
सहसुद्दाहे आमलते ९ कुमारे लेच्छती १० इति २ वृ.कर्मविपाकदशानामध्ययनविभागमाह- 'कर्मे त्यादि, 'मिगे'त्यादि श्लोकः सार्द्धः,
मृगा-मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो-भदन्त ! अन्योऽपीहास्ति जात्यन्धो?, भगवांस्तंमृगापुत्रंजात्यन्धमनाकृतिमुपदिदेश, गौतमस्तुकुतूहलेन तद्दर्शनार्थं तद्गृहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु त्वत्पुत्रदर्शनार्थमित्युवाच, ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ कोऽयंजन्मान्तरेऽभवत्?, भगवानुवाच-अयंहि विजयवर्धमानकाभिधाने खेटे मकायीत्यभिधानो लंचोपचारादिभिर्लोकोपतापकारी राष्ट्रकूटो बभूव, ततः षोडशरोगाताभिभूतो मृतोनरकंगतः, ततः पापकर्मविपाकेनमृगापुत्रो लोष्टाकारोऽव्यक्तेन्त्रियो दुर्गन्धिजर्जातः, ततोमृत्वा नरकंगन्ता इत्यादि तद्वक्तव्यताप्रतिपादकंप्रथममध्ययनं मृगापुत्रमुक्तमिति,
'गोत्तासे'त्ति गोस्त्रासितवानिति गोत्रासः, अयं हि हरितनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापासत्त्वेनाराट्या गावस्त्रासिताः, यौवने चायंगोमांसान्यनेकधा भक्षितवान्ततोनारकोजातः, ततोवाणिजग्रामनगरे विजयसार्थवाहभद्राभार्ययोरुज्झितकाभिधानः पुत्रोजातः, सचकामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्वादनेन च चतुष्पथेविडम्ब्यव्यापादितोनरकंजगामेति गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्चयते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते २,। _ 'अंडे'त्तिपुरमतालनगरवास्तव्यस्यकुक्कुटाधनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, स च निन्नको नरकं गतस्तत उद्वृत्तोऽभग्नसेननामा पल्लीपतिर्जातः, स च पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येकं नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानीप्रभृतिकं स्वजनवर्ग विनाश्य तिलशो मांसच्चेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इति, विपाकश्रुते चाभग्नसेन इतीदमध्ययनमुच्यते ३,
'सगडेत्तियावरे' शकटमितिचापरमध्यचयनं, तत्रशांखांजन्यां नगर्यां सुभद्राख्यसार्थवाहभद्राभिधानतद्भार्ययोः पुत्रः शकटः, सचसुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदादिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छनिकाभिधानः छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति ४,
माहणे'त्ति कोशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मणः, सचान्तःपुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा मारितो जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुजयार्थं ब्राह्मणादिभिर्होमंचकार, तत्र प्रतिदिनमेकैकं चातुर्वण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुवर्मास्यां चतुश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे षोडश २ परचक्रगमे अष्टशतं २ परचक्रं चजीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवंब्राह्मणवक्तव्यतनिबद्धं पञ्चममिति ५,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596