SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ स्थानं-१०, ५४९ आख्यापयति सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयतिप्रतिसूत्रमर्थकनेनदर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियैभिरैरुपात्ता इत्थं क्रियत इति भावना, निदंसेइत्ति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनर्दर्शयति निदर्शयति ‘उवदंसेइ'त्ति सकलनयुक्तिभिरिति ३, 'चाउव्वण्णाइण्णे'त्तिचत्वारो वर्णाः-श्रमणादयः समाहृता इति चतुर्वर्णं तदेव चातुर्वण्यं तेनाकीर्ण:-आकुलश्चातुर्वण्याकीर्ण अथवाचत्वारोवर्णाः-प्रकारायस्मिनेसतथा, दीर्घत्वंप्राकृत्वात्, चतुर्वर्णश्वासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णासीर्णः, 'चउविहे देवे पन्नवेइ'त्ति वन्दनकुतूहलादिप्रयोजनेनागतान प्रज्ञापयति-जीवाजीवादीनपदार्थान्बोधयति-सम्यकत्वंग्राहयति शिष्यीकरोतीतियावत्, लोलेभ्योवातान्प्रकाशयति, 'अनंते' इत्यादौ सूत्रेयावत्करणात् 'निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, 'सदेवे'त्यादि, सह देवैः वैमानिकज्योतिष्कैर्मनुजैः-नरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्तत इति सदेवमनुजासुरस्तत्र लोकेत्रिलोकरूपे 'उराल'त्ति प्रधानाकीर्तिः-सर्वदिग्व्यापी साधुवादः वर्ण: एकदिग्व्यापी शब्द:-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाधा एषां द्वन्द्वः तत एते 'परिगुब्वंति परिगुप्यन्ति व्याकुलीभयन्तिसततंभ्रमन्तीत्यर्थः,अथवा परिगूयन्ते-गूङ्घातोः शब्दार्थत्वात् संशब्धते इत्यर्थः, पाठानन्तरतः परिभ्राम्यन्ति, कथमित्याह-'इति खल्वि'त्यादि, इतिःएवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वेबोधकभाषाभाषी सर्वजगजीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः, महावीर' इति नाम, एतदेवावत्यतेश्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, 'आघवेई त्यादि पूर्ववत् । स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह मू. (९६२) दसविधे सरागसम्मइंसणे पन्नत्ते, (तं०)मू. (९६३) निसग्गु १ वतेसरुई २ आणरुता ३ सुत्त ४ बीतरुतिमेव ५। अभिगम ६ वित्थाररूती ७ किरिया ८ संखेव ९ धम्मरुती १०॥ वृ. 'दसविहे'त्यादि, सरागस्य-अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा सरागंच तत्सम्यग्दर्शनं चेति विग्रहः सरागसम्यग्दर्शनमस्येति वेति, निसग्ग गाहा, रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतोवारुचिरिति निसर्गरुचिः,योहिजातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह-- ॥१॥ “जो जिणदिढे भावे चउबिहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निसग्गरुइत्ति नायव्यो ।।" इति तथोपदेशोगुदिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः तत्पुरुषपक्षः स्यवमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान्तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्तेस उपदेशरुचिरितिभावः, यत आह “एए चेव उ भावे उवइढे जो परेण सद्दहइ। छउमत्येण जिणेण व उवएसरुई मुणेयव्यो ।।" इति ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy