________________
५४८
स्थानाङ्ग सूत्रम् १०/-/९६१ सुरगिरिशिखमिवाविचलद्भावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्भवन्दनपुरस्सरमाचक्षे-क्षमस्व क्षमाश्रमण इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव,
बभाण च-अरे रे शूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशीक श्रीह्रीधृतिकीर्त्तिवर्जित दुरन्तप्रान्तलक्षण ! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीव तसममशेषसुरासुरनरनिकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं क्षयमयति स्म, तथा सिद्धार्थश्च तस्य धर्म्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकम्पूपूजत्, लोकश्च चिन्तयाञ्चकार-देवार्यकं विनाश्येदानीं देवः क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्तमात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्मस्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां -
'अंतिमराइंयसि 'त्ति अन्तिमा अन्तिमभागरूपा अवयवे समुदायोपचारातू सा चासौ रात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थः महान्तः - प्रशस्ताः स्वप्ना - निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वप्नास्तान् 'स्वपने' स्वापक्रियायां 'एगं चेति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः 'महाघोरं' अतिरौद्रं रूपम् - आकारं 'दीप्तं' ज्वलितं दप्तं वा दवद्धारयतीति महाघौररूपदीप्तघरस्त ध्तघरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः,
तालो-वृक्षविशेषस्तदाकारी दीर्घत्वादिसाधर्म्यात् पिशाचो-राक्षसस्तालपिशाचस्तं 'पराजितं' निराकृतमात्मना १ 'एगं च'त्ति अन्यं च 'पुंसकोकिलगं 'ति पुमांश्चासौ कोकिलश्च-परपुष्टः पुंस्कोकिलकः स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः २ 'चित्तविचित्तपक्ख 'त्ति चित्रेणेति-चित्रकर्म्मणा विचित्रौ - विविधवर्णविशेषवन्तौ पक्षी यस्य स तथा ३ 'दामदुगं' ति मालाद्वयं ४ ‘गोवग्गं’ति गोरूपाणि ५ 'पउमसर'त्ति पद्मानि यत्रोत्पद्यन्ते सरसि तत्पद्मसरः 'सर्वतः ' सर्वासु दिक्षु समन्तात्-विदिक्षु च कुसुमानि पद्मलक्षणानि जातानि यत्र तत्कुसुमितं ६
'उम्मीवी सहस्सकलियं 'ति ऊर्म्मयः कल्लोलाः तल्लक्षणा या वीचयस्ता ऊर्म्मिवीचयः, वीचिशब्दो हि लोकेऽन्तरार्थोऽपि रूढः, अथवोम्मीवीच्योर्विशेषो गुरुत्वलघुत्वकृतः, क्वचिद्वीचिशब्दो न पठ्यते एवेति, ऊर्म्मिवीचीनां सहैः कलितो- युक्तो यः स तथा तं 'भुजाभ्यां ' बाहुभ्यामिति ७ तथा दिनकरं ८ एकेन च णमित्यलङ्कारे 'मह' न्ति महता छान्दसत्वात् एवं च णं महंति पाठे मानुषोत्तरस्यैते विशेषणे 'हरिवेरुलियवन्नाभेणं' ति हरिः पिङ्गो वर्णः वैडूर्यमणिविशेषस्तस्य वर्णो-नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्दाभाति यत्तद्धरिवैडूर्यवर्णाभं तेन, अथवा हरिवन्नीलं तच्च तद्वैडूर्यं चेति शेषं तथेव, निजकेन- आत्मीयेनांत्रेण- उदरमध्यावयविशेषेण 'आवेढियं' ति सकृदावेष्टितं 'परवेढियं' ति असकृदिति ९ एगं च णं महं' ति आत्मनो विशेषणं 'सिहंसणवरगयं' ति सिंहासनानां मध्ये यद्वरं तत्सिंहासनवरं तत्र गतो - व्यवस्थितो यस्तमिति १० एतेषामेव दशानां महास्वप्नानां फलप्रतिपादनायाह- 'जन्न' मित्यादि सुगमं, नवरं 'मूलओ' ति आदितः सर्वथैवेत्यर्थः, ‘उद्घाइए' उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि, ससमयपरसमइयं 'ति स्वसिद्धान्तपर सिद्धान्तौ यत्र स्त इत्यर्थः, गणिनः - आचार्यस्य पिटकमिव पिटकं वणिज इव सर्वस्वस्थानं गणिपिटकं 'आधवेइ' त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org