________________
५५०
स्थानाङ्ग सूत्रम् १०/-/९६३
तथाऽऽज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्यत स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाजीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः, भणितं च-
|| 9 ||
"रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए तो सो खलु आणारुई होई ॥” इति,
'सुत्तबीयरुईमेव ' त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तैनैवाङ्गप्रविष्टादिना सम्यकत्वं लभते गोविन्दवाचकवत् ससूत्ररुचिरिति भावः, अभिहितं च
119 11
"जो सुत्तमहिचंतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्वो ।" इति
तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च
॥ १ ॥
"एगपएणेगाई पयाइं जो पसरई उ सम्मत्ते ।
उदएव्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो ।” इति
'एवे 'ति समुच्चये, तथा 'अभिगमवित्थाररुइ' त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुचेरिति भावः, गाथाऽत्र
119 11 "सो होइ अभिगमरुई सुअनाणं जस्स अत्यओ दिवं । एक्कारस अंगाई पइन्नयं दिट्टिवाओ य ॥” इति
तथा विस्तारो - व्यासस्तो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणा सर्वपर्यायाः सर्वैर्नयप्रमाणैर्ज्ञाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि च"दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वहिं नयविहीहिं वित्थरारुई मुणेयव्वो ।” इति
॥१॥
तथा क्रिया- अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं भवतिदर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति स क्रियारुचिरिति, उक्तं च
119 11
"नाणेणं दंसणेण य तवे चरिते य समिइगुत्तीसु । जो किरियाभावई सो खलु किरियारुई होइ ।।” इति
तथा सङ्क्षेपः-सङ्ग्रहस्तत्र रुचिरस्येति सङ्क्षेप रुचिः, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानाभिज्ञश्च सङ्क्षेपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरिति
भावः, आह च-
119 11
"अनभिग्गहियकुदिट्ठि संखेवरइत्ति होइ नायव्वो ।
अविसारओ पवयणे अनभिग्गहिओ य सेसेसु ।।" इति
तथा धर्मे श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्म्म चारित्रधर्म्मच जिनोक्तं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International