Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 536
________________ स्थान - १०, - || 9 || “नवि अस्थि माणुसाणं तं सोक्कं नविय सव्वदेवचाणं । जं सिद्धाणं सोकं अव्वाबाहं उवगयाणं ।।" इति, निष्क्रमणसुखं चारित्रसुखमुक्तं, ५३३ मू. (९३५) दसविधे उवघाते पं० तं०-उग्गमोवघाते उप्पायणोवघाते जह पंचठाणे, जाव परिहरणोवघाते नाणीवघाते दंसणोवघाते चरित्तोवघाते अचियत्तोवघाते सारक्खणोवघाते दसविधा विसोही पं० तं० - उग्गमविसोही उप्पायणविसोही जाव सारक्खणविसोही । वृ. तच्चानुपहतमनाबाधसुखायेत्यतश्चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातनिरूपणसूत्रं, तत्र यदुद्गमेन-आधाकम्र्म्मादिना षोडशविधेनोपहननं-विराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः १, एवमुत्पादनया-धात्र्यादिदोषलक्षणया यः स उत्पादनोपघातः 'जहा पंचट्ठाणे 'त्ति भणनात् तत्सूत्रमिह दृश्यं कियत् ?, अत आह- 'जाव परी' त्यादि, तच्चेदम्- 'एसणोवघाए' एषणया शङ्कित्तादिभेदया यः स एषणोपघातः परिकम्मोवघाए' परिकर्म्म वस्त्रपात्रदिसमारचनं तेनोपघातः स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्म्मोपघातः 'परिहरणोवघाए' परिहरणा अलाक्षणिकस्याकल्पस्य वोपकरणस्याऽऽ सेवा तया यः स परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादत्तः, दर्शनोपधातः शङ्कादिभिः, चारित्रोपघातः समितिभङ्गादिभिः, 'अचियत्तीवधाए 'त्ति अचियत्तम् अप्रीतिकं तेनोपघातो विनयादेः, 'सारक्खणोवधाए 'त्ति संरक्षणेन शरीरादिविषये मूर्च्छा उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्गमादिविशुद्धिर्भक्तादेर्निवरयता, जावत्तिकरणात् एसणेत्यादि वाच्यमित्यर्थः, तत्र परिकर्म्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेः शास्त्रीययाऽऽ सेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अचियत्तस्य- अप्रीतकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः, संरक्षणं संयमार्थं उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाद्युपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्धमानता भणितेति इदानीं चित्तस्यैव विशुद्धिविपक्षभूतमुपध्याद्युपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम् - मू. (९३६) दसविधे संकिलेसे पं० तं०-उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मनसंकिलेसे वतिसंकिलेसे कायसंकिलेसे नाणसंकिले से दंसणसंकिलेसे चरित्तसंकिलेसे। दसविहे असंकिलेसे पं० तं०-उवहि असंकिलेसे जाव चरितअसंकिलेसे । वृ. 'दसे त्यादि, सङ्कलेशः -असमाधिः, उपधीयते - उपष्टभ्यते संयमः संयमशरीरं वा येन सउपधिः- वस्त्रादिस्तद्विषयः सङ्कलेशः उपधिसङ्कलेशः, एवमन्यत्रापि, नवरं 'उवस्सय'त्ति उपाश्रयोवसतिस्तथा कषाया एव कषायैर्वा सङ्क्लेशः कषायसङ्क्लेशः तथा भक्तपानाश्रितः सङ्कलेशो भक्तपानसङ्क्लेशः तथा मनसो मनसि वा सङ्क्लेशो वाचा सङ्क्लेशः कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सकलेशः - अविशुद्दयमानता स ज्ञानसङ्क्लेशः, एवं दर्शनचारित्रयोरपीति एतद्विपक्षोऽसङ्क्लेशस्तमधुनाऽऽह 'दसे त्यादि, कण्ठ्यं । असङ्क्लेशश्च विशिष्टे जीवस्य वीर्यबले For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596