Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 541
________________ ५३८ स्थानाम सूत्रम् १०/-/९४७ त्वस्वलक्षणमिति, इदं स्वलक्षणलक्षणं, इदंचेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात्न योगिज्ञानं, योगिज्ञाने हिन सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चिस्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येनप्रमाणेयत्तानस्यात्, अथवा दार्शन्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तदोषः-साध्यविकलत्वादिः,तत्रसाध्यविकलतायथानित्यःशब्दोमूतत्वाद्घटवद्, इह घटे नित्यत्वं नास्तीति कारणदोषः साध्यं प्रति तद्-व्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानैकान्तिकत्वलक्षणः, तत्रासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुष्वंशब्दे न सिद्धं, विरुद्धो यथा नित्यः शब्दः कृतकत्वात्घटवद्, इह घटे कृतकत्वं नित्यत्विरुद्धमनित्यत्वमेव साधयतीति, अनैकान्तिको यथा नित्यः शब्दःप्रमेयत्वादाकाशवद्, इह हि प्रमेयत्वमनित्येष्वपि वर्तते, ततः संशय एवेति ७ तथा सङ्क्रामणं-प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः अथवाप्रतिवादिमते आत्मनः सङ्क्रामणं परमताभ्यनुज्ञानमित्यर्थः तदेव दोष इति ८, तथा निग्रहः-छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति, तथा वसतःसाध्यधर्मसाधनधावत्रेति वस्तु-प्रकरणात्पक्षस्तस्यदोषः-प्रत्यक्षनिराकृतत्वादिः, यथाअश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृमिति । मू. (९४८) दसविधे विसेसे पं० (तं०) वृ. एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह - 'दसे'त्यादि, विशेषो भेदो व्यक्तिरित्यनान्तरं । . मू. (९४९) वत्थु १ तज्ज्ञातदोसे २ त, दोसे एगहितैति ३ त। कारणे ४ त पडुप्पण्णे ५, दोसे ६ निव्वे ७ हिअट्ठमे ८॥ ___ अत्तणा ९ उवनीते १० त, विसेसेति त, ते दस ।। वृ. वत्थु इत्यादिः सार्द्ध श्लोकः, वस्तित्वतिप्राक्तनसूत्रस्यान्तोक्तोयः पक्षः, तज्जात मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः, तत्र वस्तुदोषः-पक्षदोषस्तजातदोषश्च-जात्यादिहीलनमतौचविशेषौ दोषसामान्यपेक्षया, अथवा वस्तुदोषे-वस्तुदोषविषये विशेषो-भेदः प्रत्यक्षनिराकृतत्वादिः,तत्र प्रत्यक्षनिराकृतोयथाअश्रावणः शब्दः,अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढनिराकृतो यथा शुचि नरशिरः कपालमिति, तजातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः, जन्मदोषो यथा॥१॥ "कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण । तस्स महायणमझे आयारा पायडा होति ॥" इत्यादिरनेकविधः २, चकारः समुच्चये, तथा 'दोसे'त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो-विशेषः, अथवा 'दोसे'त्ति दोषेषु For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596