Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 543
________________ ५४० स्थानाङ्ग सूत्रम् १०/-/९४९ वचनानुयोगं भेदत आह मू. (९५०) दसविधे सुद्धावातानुओगे पं० तं० - चंकारे १ मंकारे २ पिंकारे ३ सेतंकारे ४ सातंकरे ५ एगत्ते ६ पुधत्ते ७ संजूहे ८ संकामिते भिन्ने १० ॥ वृ. 'दसे'त्यादि, शुद्धा-अनपेक्षितवाक्यार्था या वाक्-वचनं सूत्रमित्यर्थः तस्य अनुयोगोविचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्, तत्र चकारादिकायाः शुद्धवाचो योऽनु-योगः स चकारादिरेव व्यपदेश्यः, तत्र 'चंकारे'त्ति अत्रानुस्वारोऽलाक्षणिकयथा 'सुंके सणिचरे' इत्यादौ, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगस मुच्चयान्वाचयाव-धारणपादपूरणाधिकवचनादिष्विति, तत्र “इत्थीओ सयणाणि य” इति, इह सूत्रे चकरः समुच्चयार्थः स्त्रीणां शयनानांचापरिभोग्यतातुल्यतत्वप्रतिपादनार्थः १, 'मंकारे'त्ति मकरानुयोगो यथा 'समणं व माहणं वा' इतिसूत्रे माशब्दो निषेधे, अथवा 'जेणामेव समणे भगवं महावीरे तेणामेवे'त्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, ___ 'सेयंकरे'त्तिइहाप्यंकारोऽलाक्षणिकस्तेन सेकारा इति, तदनुयोगोयथा 'सेभिक्खू वे' त्यत्र सूत्रे सेशब्दोऽधार्थः, अथशब्दश्च प्रक्रियाप्रश्नान्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वित्यानन्तर्यार्थः सेशब्दइति, क्वचिदसावित्यर्थः, क्वचित्तस्येत्यर्थः,अथवा सेयंकार' इतिश्रेय इत्येतस्य करणं श्रेयस्कराः श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा 'सेयं मे अहिजिउं सज्झयण'मित्यत्र सूत्रे श्रेयः-अतिशयेन प्रशस्यं कल्याणमित्यर्थः,अथवा 'सेयकाले अकम्मवावि भवई त्यत्र सेयशब्दो भविष्यदर्थः४, ‘सायंकारे त्ति सायमितिनिपातः सत्यार्थस्तस्माद् ‘वर्णत्कार' इत्यनेन छान्दस्त्वत्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेष्विति, एते च चकारदयो निपातस्तेषानुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, “एगत्ति'त्ति एकत्वमेकवचनं तदनुयोगो यथा 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमर्गत्वख्यापनार्थं, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६, _ 'पुहुत्तेत्ति पृथकत्वं-भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा 'धम्मत्थिकाये धम्मस्थिकायदेसे धम्मस्थिकायप्पदेसा' इह सूत्रेधर्मास्तिकायप्रदेशा इत्येतद्बहुवचनं तेषामसङ्घयातत्वख्यापनार्थमिति ७, 'संजूहे'त्ति सङ्गतं-युक्तार्थं यूथं-पदानां पदयोर्वा समूहः संयूथं, समास इत्यर्थः, तदनुयोगो यथा 'सम्यग्दर्शनशुद्धंमित्यादिरनेकधा इति ८, _ 'संकामिय'त्तिशङ्कामितं विभक्तिवचनाद्यन्तरतया परिणामितंतदनुयोगोयथा- 'साहूणं वंदणेणं नासति पावं असवंकिया भावा' इह साधूनामित्येतस्याः षष्ठयाःसाधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणामं कृत्वाअशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयं, तथा “अच्छंदा जे न भुजुति, न से चाइत्ति वुच्चइ" इत्यत्र सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, ‘भिन्नं'मितिक्रमकालभेदादिभिर्भिन्न-विसशंतदनुयोगो यथा - 'तिविहं तिविहेण मिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596