________________
५४०
स्थानाङ्ग सूत्रम् १०/-/९४९ वचनानुयोगं भेदत आह
मू. (९५०) दसविधे सुद्धावातानुओगे पं० तं० - चंकारे १ मंकारे २ पिंकारे ३ सेतंकारे ४ सातंकरे ५ एगत्ते ६ पुधत्ते ७ संजूहे ८ संकामिते भिन्ने १० ॥
वृ. 'दसे'त्यादि, शुद्धा-अनपेक्षितवाक्यार्था या वाक्-वचनं सूत्रमित्यर्थः तस्य अनुयोगोविचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्, तत्र चकारादिकायाः शुद्धवाचो योऽनु-योगः स चकारादिरेव व्यपदेश्यः, तत्र 'चंकारे'त्ति अत्रानुस्वारोऽलाक्षणिकयथा 'सुंके सणिचरे' इत्यादौ, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगस मुच्चयान्वाचयाव-धारणपादपूरणाधिकवचनादिष्विति, तत्र “इत्थीओ सयणाणि य” इति, इह सूत्रे चकरः समुच्चयार्थः स्त्रीणां शयनानांचापरिभोग्यतातुल्यतत्वप्रतिपादनार्थः १,
'मंकारे'त्ति मकरानुयोगो यथा 'समणं व माहणं वा' इतिसूत्रे माशब्दो निषेधे, अथवा 'जेणामेव समणे भगवं महावीरे तेणामेवे'त्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, ___ 'सेयंकरे'त्तिइहाप्यंकारोऽलाक्षणिकस्तेन सेकारा इति, तदनुयोगोयथा 'सेभिक्खू वे' त्यत्र सूत्रे सेशब्दोऽधार्थः, अथशब्दश्च प्रक्रियाप्रश्नान्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वित्यानन्तर्यार्थः सेशब्दइति, क्वचिदसावित्यर्थः, क्वचित्तस्येत्यर्थः,अथवा सेयंकार' इतिश्रेय इत्येतस्य करणं श्रेयस्कराः श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा 'सेयं मे अहिजिउं सज्झयण'मित्यत्र सूत्रे श्रेयः-अतिशयेन प्रशस्यं कल्याणमित्यर्थः,अथवा 'सेयकाले अकम्मवावि भवई त्यत्र सेयशब्दो भविष्यदर्थः४,
‘सायंकारे त्ति सायमितिनिपातः सत्यार्थस्तस्माद् ‘वर्णत्कार' इत्यनेन छान्दस्त्वत्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेष्विति, एते च चकारदयो निपातस्तेषानुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, “एगत्ति'त्ति एकत्वमेकवचनं तदनुयोगो यथा 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमर्गत्वख्यापनार्थं, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६,
_ 'पुहुत्तेत्ति पृथकत्वं-भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा 'धम्मत्थिकाये धम्मस्थिकायदेसे धम्मस्थिकायप्पदेसा' इह सूत्रेधर्मास्तिकायप्रदेशा इत्येतद्बहुवचनं तेषामसङ्घयातत्वख्यापनार्थमिति ७, 'संजूहे'त्ति सङ्गतं-युक्तार्थं यूथं-पदानां पदयोर्वा समूहः संयूथं, समास इत्यर्थः, तदनुयोगो यथा 'सम्यग्दर्शनशुद्धंमित्यादिरनेकधा इति ८, _ 'संकामिय'त्तिशङ्कामितं विभक्तिवचनाद्यन्तरतया परिणामितंतदनुयोगोयथा- 'साहूणं वंदणेणं नासति पावं असवंकिया भावा' इह साधूनामित्येतस्याः षष्ठयाःसाधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणामं कृत्वाअशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयं, तथा “अच्छंदा जे न भुजुति, न से चाइत्ति वुच्चइ" इत्यत्र सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९,
‘भिन्नं'मितिक्रमकालभेदादिभिर्भिन्न-विसशंतदनुयोगो यथा - 'तिविहं तिविहेण मिति Jain Education International
For Private & Personal Use Only
www.jainelibrary.org