SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ स्थानं-१०, ५३९ शेषदोषविषये विशेषो-भेदः, स चानेकविधः स्वयमूह्यः ३, 'एगट्ठिए यत्ति एकश्चसावर्थश्चअभिधेयः एकार्थः स यस्यास्ति सएकार्थिकः एकार्थवाचक इत्यर्थः, इतिः-उपप्रदर्शने चः समुच्चये, सच शब्दसामान्यापेक्षयैकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थको यथा गौः, यथोक्तं- 'दिशि १ ६शि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ऽशौ ८ पशौ ९ च गोशब्दः" इति, इहैकार्थिकाविशेषग्रहणेनानेकर्थिकोऽपि गृहीतस्तद्विपरीतत्वात्, न चेहासौ गण्यते, दशस्थानकानुरोधात्, अथवा कथञ्चिदेकार्थिक शब्दग्रामे य कथञ्चिभेदः स विशेषः स्यादिति प्रक्रमः, 'इय'त्ति पूरणे, यथाशक्रः पुरन्दर इत्यत्रैकार्थेशब्दद्वयेशकनकाल एव शक्रः पूरिणकाल एव पुरन्दरः एवंभूतनयादेशादिति, अथवा दोषशब्द इहापि सम्बद्धयते, ततश्च न्यायोद्ग्रहणे शब्दान्तरापेक्षया विशेष इति ४, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषोभवति, न चेहोक्तो, दशस्थानकानुवृत्तेः अथवा कारणे-कारणविषये विशेषो-भेदो यथा परिणामिकारणंमृत्पिण्डः, अपेक्षाकारणं दिग्देशकालाकाशपुरुषचक्रादि,अथवोपादानकारणंमृदादि निमित्तकारणं-कुलालादि सहकारिकारणं- चक्रचीवरादीत्यनेकधा कारणं, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति चः समुच्चये, तथा प्रत्युत्पन्नोवार्त्तमानिकः अभूतपूर्व इत्यर्थः दोषः-गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः ५, अथवा प्रत्युत्पन्ने-सर्वथावस्तुन्यभ्युपगतेविशेषोयो दोषोऽकृताभ्यागमकृतविप्रणाशादिः सदोषसामान्यपेक्षया विशेष इतिह, तथा नित्योयोदोषोऽभव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यपेक्षया विशेषोऽथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो बालकुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति ७, तथा 'हिअट्ठमे'त्ति अकारप्रश्लेषादधिक-वादकाले यत्परप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्तनिगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादिति, आह च-- ॥१॥ "जिणवयणं सिद्धं चेव भन्नए कत्थई उदाहरणं । ___ आसज्ज उ सोयारं हेऊवि किहिंचि भनेजा ।। तथा-कथइ पंचावयवं दसहा वा सव्वहा न पडिकुटुं ।" इति, ततश्चाधिकदोषो दोषविशेषत्वाद्विशेष इति, अथवाऽधिके दृष्टान्तादौ सति यो दोषो- . दूषणंवादिनः सोऽपि दोषविशेष एव, अयंचाष्टम आदितो गण्यमान इति ८, 'अत्तण'त्तिआत्मना कृतमिति शेषः, तथा उपनीतं-प्रापितंपरेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतंचापरो विशेष इतिभावः ९, चकारयोर्विशेषशब्दस्य च प्रयोगोभावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोष परोपनीतश्च दोष इति, ___ दोषसामान्यापेक्षया विशेषावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु 'निजेऽहिअट्टमे'त्ति दृष्टं, न च तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातं, इहोक्तरूपविशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा - "अहिंसा संजमो तवो" इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनं, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति तदिह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy