Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थान - १०, -
५३१
पाराञ्चिको मिथ्यात्वमप्यनुभवेदतो मिध्यात्वनिरूपणाय सूत्रम्
मू. (९२९) दसविधे मिच्छत्ते पं० तं०- अधम्मे धम्मसन्ना धम्मे अधम्मसन्ना अमग्गे मग्गसन्ना मग्गे उम्मग्गसन्ना अजीवेसु जीवसन्ना जीवेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसन्ना अमुत्तेसु मुत्तसन्ना मुत्तेसु अमुत्तसन्ना ।
वृ. तत्र अधर्मे - श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्म्मसंज्ञा-आगमबुद्धिर्मिथ्यात्वं, विपर्यस्तत्वादिति १ धर्मे-कषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्म्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्पमाणतोऽ नाप्तस्तदभावात्तत्तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २ तथा उन्मार्गोनिर्वृतिपुरीं प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानानानुष्ठानरूपस्तत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धिः ३ तथा मार्गेऽमार्गसंज्ञेति प्रतीतं ४ तथा अजीवेषु - आकाशपरमाण्वादिषु जीवसंज्ञा 'पुरुष एवेद' मित्याद्यभ्युपगमादिति
तथा -
“क्षितिजलपवनहुताशनयजमानाकाशचन्द्रसूर्याख्याः ।
इति मूर्त्तयचो महेश्वरसम्बधिन्यो भवन्त्यष्टौ ॥” इति ५,
तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवाः उच्छ्वासादीनां प्राणिधर्माणामनुपलम्भाद् घटवदिति ६ तथाऽसाधुषु षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्यब्रह्मचारिषु साधुसंज्ञा, यथासाधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७ तथा साधुषु ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात्स्नानादिविरहितत्वाद्वेत्यादविकल्पात्मिकेति ८ तथाऽमुक्तेषुसकर्म्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा
119 11
“अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥"
इत्यादिविकल्पात्मिकेति ९ तथा मुक्तेषु सकलकर्म्मकृतविकारविरहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवध्शा मुक्ताः, अनादिकर्म्मयोगस्य निवर्त्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० ।
मू. (९३०) चंदप्पभेणं अरहा दस पुव्वसतसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, धम्पेणमरहा दस वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, नमी णमरहा दस वाससहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता छड्डीते तमाए पुढवीए नेरतित्ताते उववत्रे, नेमी गं अरहा दस धणूई उड्ड उच्चत्तेणं दस य वाससयाइडं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दस धणूइं उद्धं उच्चत्तेणं दस य वाससयाई सव्वाउयं पालइत्ता तस्त्राते वालुयप्पभाते पुढवीते नेरतियत्ताते उववन्ने !
वृ. अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते - 'चंदप्पभे णं' इत्यादि सूत्रत्रयमपि कण्ठ्यं, नवरं सिद्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/68f10dc7dc2565724f68c44615fef57b123457e01a215748f0a38de14150afe4.jpg)
Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596