Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५२८
स्थानाङ्ग सूत्रम् १०/-१९२० येषु प्रदेशेषुशरीरमवगाढं सा शरीरावगाहना, साचतथाविधनद्या दिपद्भनालविषया द्रष्टव्येति
'जलचरे'त्यादि, इह चलचरा मत्स्याः गर्भजा इतरे च दृश्याः,"मिच्छजुयले सहस्स" मिति वचनात्, एतेच किल स्वयम्भूरमण एव भवन्तीति । 'उरगे' त्यादि उरःपरिसपाइह गर्भजा महोरगा दृश्याः, “उरगेसु य गब्मजाईसु" । इति वचनात्, एते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, ‘एवं चेव त्ति 'दसजोयणसयाइं सरीरोगाहणा पन्नत्तेति सूत्रं वाच्यमित्यर्थः।
मू. (९२१) संभवाओणमरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुप्पन्ने।
वृ.एवंविधाश्चार्था जिनैर्शिता इतिप्रकृताध्ययनावतारि जिनान्तरसूत्रं 'सम्भवेत्यादि, सुगम।अभिहितप्रमाणाश्चावगाहनादयोऽन्येपिपदार्थाजिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह
मू. (९२२) दसबिहे अनंततेपं० त०-नामानंतते ठवणानंततेदव्यानंतते गणणातनंतते पएसानंतते एगतोनंतते दुहतोनंतते देसवित्थारानंतते सव्ववित्थारानंतते सासयानंतते।
वृ, 'दसविहे'त्यादि नामानन्तक-अनन्तकमितियेषा नामभूता वर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तक स्थापनान्तकं यदक्षादावनन्तकमिति स्थाप्यते, द्रव्यानन्तकं-जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वं, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सङ्ख्याताअसङ्ख्याताअनन्ता इति सङ्ख्यामात्रतया सद्ध्यातव्यानपेक्षं सङ्ख्यानमात्रं व्यपदिश्यत इति, प्रदेशानन्तकं-आकाशप्रदेशानां यदानन्त्यमिति, एकतोऽनन्तकमतीताद्धाअनागताद्धावा, द्विधाऽनन्तकंसद्धिा, देशविस्तारानन्तकं एक आकाशप्रतरः,सर्वविस्तारानन्तकं-सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति।
मू. (९२३) उप्पायपुवस्स णं दस वत्यू पं० अत्थिनस्थिप्पवातपुव्वस्स णं दस चूलवत्थू पंन्नता।
दृ. एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाह'उप्पाये'त्यादि, उत्पातपूर्व प्रथमंतस्य दश वस्तूनि-अध्यायविशेषाः, अस्तिनास्तिप्रवादपूर्वं चतुर्थं तस्यमूलवस्तूनामुपरिचूलारूपाणिवस्तूनि चूलावस्तूनि ।पूर्वगतादिश्रुतनिषिद्धवस्तूनांसाधोर्यद्विधा प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह
मू. (९२४) दसविहा पडिसेवणा पं०(तं०)मू. (९२५) दप्प १ पमाय २ नाभोगे ३, आउरे ४ आवतीसु ५ त ।
संकिते ६ सहसक्कारे ७ भय ८ पेयोसा ९ य वीमंसा १०॥ वृ.'दसविहे'त्यादि, प्रतिषेवणा-प्राणातिपाताद्यासेवनं, 'दप्प'सिलोगो, दो-वल्गनादि, 'दप्पोपुणवग्गणाईओ इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवाया सादर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः-परिहासविकथादिः, “कंदप्पाइ पमाओ" इति वचनाद्, विधेयेष्वप्रयत्लोवा, अनाभोगो-विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः, अथवाआत्मनंएवातुरत्वेसति, लुप्तभावप्रत्ययत्वात्, अयमर्थःक्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति,
उक्तंच-“पढमबीय ओवाहिओवजंसेवआउराएसा" इति तथा आपत्सुद्रव्यादिभेदेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6a9c410fdd5d1817bc26f8a916bb8671a1b85abe673125406085fa61a8a4fe16.jpg)
Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596