Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
• स्थानाङ्ग सूत्रम् १०/-१९०१ ग्रहणकालंतद्रात्रिशेषतदहोरात्रशेषंचततः परमहोरात्रंचवर्जयन्ति,आहच-"चंदिमसूरुवरागे निग्घाएगुंजिए अहोरत्तं" इति आचारितंतुयदितत्रैव रात्री दिने वा मुक्तस्तदा चन्द्रग्रहणेतस्या स्व रात्रेः शेषं परिहरन्ति, सूर्यग्रहणे तुतद्दिनशेषं परिहत्यानन्तरं रात्रिमपि परिहरन्तीति,
आहच-“आइन्नं दिणमुक्के सोचियदिवसोवराईय।" इति चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वंतुसदपिन विवक्षितं, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शास्वतत्वेन विलक्षणत्वादिति, ‘पडणे'त्ति पतनंमरणं राजामात्यसेनापतिग्रामभोगिकादीनां, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भयेवास्वाध्यायंवर्जयतीति निर्भयश्रवणानन्तरमप्यहोरात्रंवर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्तेबहुस्वजनेवाशय्यातरेवापुरुषान्तरेवा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायंवर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहाँ लोको मा कार्षीदिति, आह च॥१॥ "मयहर पगए बहुपक्खिए य सत्तधर अंतर मयंमि ।
निढुक्खत्तिय गरहा न पढंति सणीयगंवावि॥" इति तथा रायवुग्गहे'त्ति राज्ञांसङ्ग्राम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकं, एवं पांशुपियादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवताछलयेनिर्दुःखाएतइत्युड्डाहो वाऽप्रीतिकंवा भवेदित्यतो यद्विग्रहादिकंयच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति, उक्तंच॥१॥ “सेणाहिव भोइय मयहरे य पुंसिस्थिमल्लयुद्धे य ।
लोट्टाइभंडणे वा गुग्झग उड्डाह अचियत्तं ॥ इति, तथो पाश्रयस्य-वसतेरन्तः-मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यधुभिन्नं भवति तदाहस्तशताभ्यन्तरेऽस्वाध्यायिकंभवति, अथानुभिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति।। ... मू. (९०२) पंचिंदियाणं जीवाणं असमारभमाणस्स दसविधे संजमे कजति, तं-- सोयामताओ सुक्खाओ अववरोवेत्ता भवति सोतामतेण दुक्खेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएता भवति, एवं असंयमोवि भाणितव्यो।
वृ. पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात्तदाश्रितसंयमासंयमसूत्रे गतार्थे ।।
संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह
मू. (९०३) दस सुहुमा पं० तं०-पाणसुहुमे पणगसुहुमे जाव सिणेहसुहुमे गणियसुहुमे भंगसुहमे।
वृ.दससुहुमे त्यादि, प्राणसूक्ष्म-अनुद्धरितकुन्थुः पनकसूक्ष्म-उल्ली यावत्करणादिदंद्रष्टव्यं, बीजसूक्ष्म-व्रीह्यादीनांनखिका हस्तिसूक्ष्म-भूमिसमवर्णं तृणंपुष्पसूक्ष्म-वटादिपुष्पाणि अण्डसूक्ष्मंकीटिकाद्यण्डकानिलयनसूक्ष्मकीटिकानगरादिस्नेहसूक्ष्मे-अवश्यादीत्यष्यमस्थानकभणितमेव इदमपरं गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्, श्रूयते च वज्रातं गणितमिति, भङ्गसूक्ष्म' भङ्गा-भङ्गका वस्तुविकल्पास्तेच द्विधा-स्थानभङ्गकाःक्रमभङ्गकाश्च, तत्राद्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4fb66eb7fc9ee68db4874029ea07d892eff7568e877e26fb4f9dd5550da7d6bd.jpg)
Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596