Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 527
________________ स्थानात सूत्रम् १०/-/९१४ मू. (९१४) जंबुद्दीवे २ दस खेत्ता पं० तं०-भरहे एरवते हेमवते हेरन्नवते हरिवस्से रम्मगवरसे पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा । मू. (९१५) माणुसुत्तरे णं पव्वते भूले दस बावीसे जोयणसते विक्खंभेण पं० । वृ. मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः । मू. (९१६) सव्वेविणं अंजनगपव्वता दस जोयणसयाइमुव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेण उवरिं दस जोयणसताइं विक्खंभेण पत्र०, सव्वेविणं दहिमुहपव्वता दस जोयणसताई उव्वेणं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं पं०, सव्वेवि णं रतिकरगपव्वता दस जोयणसताइं उद्धं उच्चत्तेणं दसगाउयसताइंउव्वेहेणं सव्वत्थसमा झल्लरिसंठिता दस जोयणसहस्साइं विक्खंभेणं पं० । ५२४ वृ. अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्त्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्वतुष्ट्यव्यवस्थितपुष्करिणीमध्यवर्त्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुःस्थानकाभिहितस्वरूपाः । मू. (९१७) रुयगवरे णं पव्वते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जीयणसताइंविक्खंभेणं पं० । एवं कुंडलवरेवि । वू. रूचको रूचकाभिधानस्त्रयोदशद्वीपवर्त्ती चक्रवालपर्वतः । कुण्डलः- कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वत एव, 'एवं कुण्डलवरेऽवी' त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भ रचकवरपर्वतसमान उक्तो, द्वीपसागरप्रज्ञत्यां त्वेवमुक्तः 119 11 "दस चेव जोयणसए बाचीसे वित्थडो उ मूलंमि । चत्तारि जोयणसए चउवीसे वित्थडो सिहरि ||" इति रुचकस्यापि, तत्रायं विशेष उक्तः- मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह मू. (९१८) दसविहे दवियाणुओगे पं० तं० दवियानुओगे १ माउयानुओगे २ एगट्ठियानुओगे ३ करणानुओगे ४ अप्पितनम्पिते ५ भाविताभाविते ६ बाहिराबहिरे ७ सासयासासते ८ तहमाणे ९ अतहनाणे १० । वृ. 'दसविहे दविए' त्यादि, अनुयोजनं- सूत्रस्यार्थेन सम्बन्धनं अनुरूपोऽनुकूलो वा योगःसूत्रस्याभिधेयार्थं प्रतिव्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात्, तद्यथा-चरणकरणानुयोगो धर्म्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगञ्च, तत्र द्रव्यस्य-जीवादेरनुयोगो-विचारो द्रव्यानुयोगः, स च दशधा, तत्र 'दवियानुओगे' त्ति यज्ज्रीवादेर्द्रव्यत्वं विचार्यते स द्रव्यानुयोगो, यथा द्रवति गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैरिति द्रव्यं-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः न हि तद्वियुक्तो जीवः कदाचनापि सम्भवति, जीवत्वहाने:, तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादि द्रव्यानुयोगः १, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596