Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 250
________________ खण्डः-२ दृष्टान्तसमुच्चयः २०९ क्षमयामि सर्वाञ्जीवान् सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ।।७९ । । मामकीनं न किमपि न वाऽहमपि कस्यचित् । ममकारमकार्षं यं तमपि व्युत्सृजाम्यहम् ।।८० ।। कानि कानि न मूढोऽहं पापस्थानान्यसेविषि । तन्मिथ्या दुष्कृतं मेऽस्तु गतरागस्य संप्रति ।।८१ ।। देवत्वनृत्वतिर्यक्त्वनारकत्वेषु यन्मया । कृतं दुष्कर्म तद्गहें श्रीवीरोऽर्हन् गतिर्मम ।।८२।। एवमाराधनां कृत्वा प्रत्याचख्यौ चतुर्विधम् । आहारमथ दध्यौ च नमस्कारं समाहितः ।।८३।। तदा च वरुणस्यैकः सुहृन्मिथ्यादृगाहवात् । बहिर्भूत्वोपवरुणमागत्यैवमवोचत ।।८४ ।। वयस्य ! तव सौहार्दक्रीतोऽहमपि संप्रति । त्वदासेवितमध्यानं प्रपन्नोऽस्म्यविदन्नपि ।।८५ ।। नमस्कारपरावर्ती धर्मध्यानपरायणः । समाधिमरणं प्राप्य सौधर्मे वरुणो ययौ ।।८६।। तद्विमानेऽरुणाभाख्ये चतुःपल्योपमप्रमम् । पूरयित्वायुरुत्पद्य विदेहेषु स सेत्स्यति ।।८७ ।। अज्ञानसेवितेनापि वरुणस्य तु वर्त्मना । विपद्य तत्सुहृद्भूयो मनुष्यः सुकुलेऽभवत् ।।८८।। विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति ।।८९ ।। हते च वरुणेऽभूवंश्चेटकस्य चमूभटाः । युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् ।।९० ।। गणराजसनाथैस्तैश्चेटकस्य चमूभटैः । अकुट्टि कूणिकचमूर्दशद्भिरधरं रुषा ।।९१।। कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत ।।९२।। सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः । दिशो दिशि परबलं पद्मखंडमिवाक्षिपत् ।।१३।। कूणिकं दुर्जयं ज्ञात्वा चेटकोऽथात्यमर्षणः । तं दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ।।९४ ।। इतश्च वज्रकवचं कूणिकस्य पुरो हरिः । व्यधत्त चमरेन्द्रस्तु पृष्ठे सन्नाहमायसम् ।।९५ ।। चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ।।९६।। अमोघस्यापि बाणस्य तस्य मोघत्वदर्शनात् । चमूभटाश्चेटकस्य पुण्यक्षयममंसत ।।९७।। द्वितीयं नाऽमुचद्बाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ।।१८।। तथैव मोघबाणोऽभूद् द्वितीयेऽप्यह्नि चेटकः । एवं दिने दिने युद्धमतिघोरमभूत्तयोः ।।९९।। लक्षाशीत्याऽधिका कोटिर्भटानां पक्षयोर्द्वयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषु च ।।१०० ।। नंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्यां कूणिकोऽपि रुरोध ताम् ।।१०१।। तदा सेचनकारूढौ चंपेशस्याखिलं बलम् । वीरौ हल्लविहल्लौ तौ रात्रावभिबभूवतुः ।।१०२।। न प्रहर्तुं नवा धर्तुं स हस्ती स्वप्नहस्तिवत् । केनाप्यशाकि चंपेशाशिबिरे सौप्तिकागतः ।।१०३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400