Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३४४
आतुरप्रत्याख्यानप्रकीर्णकम्
आतुर. गा. ३८ यदि मरणकाले विपरिणामः स्यात्ततः किंस्यादिति पृष्टे आचार्यः प्राह
मरणे विराहिए देवदुग्गई दुल्लहा य किर बोही ।
संसारो य अणंतो होइ पुणो आगमे काले ।।६१।। मरणे-मृत्युकाले । विराहिए-विराधिते विनाशिते मरणकाले सम्यक्त्वे विराधित इत्यर्थः मरणकाले सम्यक्त्वस्य यद्विराधनं तन्मरणस्यैव साहचर्यादिति । अथवार्तरौद्रध्यानसहितं यन्मरणं तत्तस्य विराधनमित्युक्तम्। देवदुग्गई-देवदुर्गतिः भवनवासिवानव्यन्तरज्योतिष्कादिषूत्पत्तिः । दुल्लहा य-दुर्लभा दुःखेन लभ्यते इति दुर्लभा च । किर-किल । अयं किलशब्दोऽनेकेष्वर्थेषु विद्यते, तत्र परोक्षे द्रष्टव्यः आगमे एवमुक्तमित्यर्थः । बोही-बोधिः सम्यक्त्वं रत्नत्रयं वा । संसारो य-संसारश्च चतुर्गतिलक्षणः । अणंतो-अनन्तः अर्द्धपुद्गलप्रमाणः कुतोऽस्यानन्तत्वं ? केवलज्ञानविषयत्वात् । होइ-भवति । पुणो-पुनः । आगमे काले-आगमिष्यति समये । मरणकाले सम्यक्त्वविराधने सति, दुर्गतिर्भवति, बोधिश्च दुर्लभा, आगमिष्यति काले संसारश्चानन्तो भवतीति ।
आतुर. गा० ३९
अत्रैवाभिसम्बन्धे प्रश्नपूर्वकं सूत्रमाह
का देवदुग्गईओ का बोही केण ण बुज्झए मरणं ।
केण व अणंतपारे संसारे हिंडए जीओ ।।६२।। का देवदुग्गईओ-का देवदुर्गतयः किंविशिष्टा देवदुर्गतयः । का बोही-का बोधिः । केण वकेन च । ण बुझए-न बुध्यते । मरणं-मृत्युः । केण व-केन च कारणेन । अणंतपारेअनन्तोऽपरिमाणः पारः समाप्तिर्यस्यासौ अनन्तपारस्तस्मिन् । संसारे-संसरणे । हिंडए-हिण्डते गच्छति । जीवो-जीवः । हे भट्टारक ! का देवदुर्गतयः का च बोधिः, केन च परिणामेन न बुध्यते मरणं, संसारे च केन कारणेन परिभ्रमति जीवः ? आतुर. गा० ४० क्षपकेण पृष्टः आचार्यः प्राह
कंदप्पमाभिजोग्गं किब्बिस सम्मोहमासुरत्तं च । ता देवदुग्गईओ मरणम्मि विराहिए होंति ।।६३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400