Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 398
________________ परिशिष्टम् - ७ मूलाचारतुलनागाथाः आतुर. गा० ७० उपसंहारद्वारेणाराधनाफलमाह एदं पच्चक्खाणं जो काहदि मरणदेसयालम्मि । धीरो अमूढसण्णो सो गच्छइ उत्तमं ठाणं ।। १०५ । । एदं - एतत् । पच्चक्खाणं- प्रत्याख्यानम् । जो काहदि- यः कुर्यात् । मरणदेसयालम्मिमरणदेशकाले । धीरो-धैर्योपेतः । अमूढसण्णो- अमूढसंज्ञः आहारादिसंज्ञास्वलब्धः । सोः - सः । गच्छदि-गच्छति । उत्तमं ठाणं उत्तमं स्थानं निर्वाणमित्यर्थः । मरणदेशकाले एतत्प्रत्याख्यानं यः कुर्यात् धीरोऽमूढसंज्ञश्च स गच्छत्युत्तमं स्थानमिति । । १०५ ।। आतुर० गा० ७९ अवसान मंगलार्थं क्षपकसमाध्यर्थं चाह वीरो जरमरणरिऊ वीरो विण्णाणणाणसंपण्णो । लोगस्सुज्जोययरो जिणवरचंदो दिसदु बोधिं । ।१०६।। वीरो-वर्धमानभट्टारकः । जरमरणरिऊ - जरामरणरिपुः । विण्णाणणाणसंपण्णो-विज्ञानं चारित्रं, ज्ञानमवबोधस्ताभ्यां सम्पन्नो युक्तः । वीरो वीरः । लोगस्स - लोकस्य भव्यजनस्य पदार्थानां वा । उज्जोययरो - उद्योतकरः प्रकाशकरः । जिणवरचंदो - जिनवरचन्द्रः । दिसदुदिशतु ददातु । बोधि- समाधिं सम्यक्त्वपूर्वकाचरणं वा । जिनवरचन्द्रो जरामरणशत्रुः चारित्रज्ञानादिसंयुक्तो लोकस्य चोद्योतकरो वीरो मह्यं दिशतु बोधिमिति सम्बन्धः । ।१०६ ।। ।। इति श्री वट्टकेराचार्यविरचितमूलाचारग्रन्थे श्रीवसुनन्दिसूरिरचिताचारवृत्तौ च बृहत्प्रत्याख्यानसंस्तरस्तवाधिकाराऽन्तर्गताः श्रीआतुरप्रत्याख्यानप्रकीर्णकतुल्यगाथाः ।। ३५७ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400