Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 397
________________ ३५६ आतुरप्रत्याख्यानप्रकीर्णकम् आतुर. गा० ६८ अत्र किं कृतो नियम ? इत्याह चिरउसिदबंभयारी पप्फोडेदूण सेसयं कम्मं ।। अणुपुत्वीय विसुद्धो सुद्धो सिद्धिं गदि जादि ।।१०२।। चिरउसिद-चिरं बहुकालं उषितः स्थितः । बंभयारी-ब्रह्म मैथुनानभिलाषं चरति सेवत इति ब्रह्मचारी चिरोषितश्च स ब्रह्मचारी च चिरोषितब्रह्मचारी । अथवा चिरोषितं ब्रह्म चरतीति । पप्फोडेदूण-प्रस्फोट्य निराकृत्य । सेसयं कम्म-शेषं च कर्म ज्ञानावरणादि । अणुपुवीयआनुपूर्व्या च क्रमपरिपाट्या अथवायुःक्षयाद्गुणस्थानक्रमेण वा । विसुद्धो-विशुद्धः कर्मकलंकरहितः । सुद्धो-शुद्धः केवलज्ञानादियुक्तः । सिद्धिं गर्दि जादि-सिद्धिं गतिं याति मोक्षं प्राप्नोतीत्यर्थः । अभग्नब्रह्मचारी शेषकं कर्म प्रस्फोट्य, असंख्यातगुणश्रेणिकर्मनिर्जरया च विशुद्धः संजातस्ततः शुद्धोभूत्वा सिद्धिं गतिं याति । अथवा अपूर्वापूर्वपरिणामसन्तत्या च विशुद्धः शुद्धः केवलोपेतः केवलज्ञानं प्राप्य परमस्थानं गच्छतीति ।।१०२।। आतुर. गा० ६९ कुत ऐतदित्याह णिक्कसायस्स दंतस्स सूरस्स ववसाइणो । संसारभयभीदस्स पच्चक्खाणं सुहं हवे ।।१०४।। णिक्कसायस्स-निष्कषायस्य कषायरहितस्य । दंतस्स-दान्तस्य दान्तेन्द्रियस्य । सूरस्सशूरस्याकातरस्य । ववसाइणो-व्यवसायो विद्यतेऽस्येति व्यवसायी तस्य चारित्रानुष्ठानपरस्य । संसारभयभीदस्स-संसारभयभीतस्य संसाराभयं तस्माद्भीतस्त्रस्तः संसारभयभीतः तस्य ज्ञातचतुर्गतिदुःखस्वरूपस्य । पच्चक्खाणं-प्रत्याख्यानं आराधना । सुहं-सुखं सुखनिमित्तम् । हवेभवेत् । यतो निष्कषायस्य, दान्तस्य, शूरस्य, व्यवसायिन, संसारभयभीतस्य, प्रत्याख्यानं सुखनिमित्तं भवेत्ततः तथाभूतो म्रियमाण आराधको भवतीति सम्बन्धः ।।१०४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400