Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३५४
आतुरप्रत्याख्यानप्रकीर्णकम्
आतुर० गा० ६१ किमिति कृत्वा तन्न मोक्तव्यं यतः
एदह्यादो एक्कं हि सिलोगं मरणदेसयालह्मि ।
आराहणउवजुत्तो चिंतंतो आराधओ होदि ।।१४।। एदह्मादो-एतस्मात् श्रुतस्कन्धात् पंचनमस्काराद्वा । एक्कं हि - एकं ह्यपि एकमपि तथ्यम् । सिलोगं-श्लोकम् । मरणदेसयालम्मि-मरणदेशकाले । आराहण उवजुत्तो-आराधनया उपयुक्तः सम्यग्ज्ञानदर्शनचारित्रतपोनुष्ठानपरः । चिंतंतो-चिन्तयन् । आराधओ-आराधकः रत्नत्रयस्वामी। होइ-भवति सम्पद्यते । एतस्मात् श्रुतात् पंचनमस्काराद्वा मरणदेशकाले एकमपि श्लोकं चिन्तयन् आराधनोपयुक्तः सन् आराधको भवति यतस्ततस्त्वयेदं न मोक्तव्यमिति सम्बन्धः ।।९४ ।। आतुर. गा. ६२ आराधनायाः किं फलं ? इत्यत आह
आराहण उवजुत्तो कालं काऊण सुविहिओ सम्मं ।
उक्कस्सं तिण्णि भवे गंतूण य लहइ निव्वाणं ।।१७।। आराहणउवजुत्तो-आराधनोपयुक्तः सम्यग्दर्शनज्ञानादिषु तात्पर्यवृत्तिः । कालं काऊण-कालं कृत्वा । सुविहिओ-सुविहितः शोभनानुष्ठानः । सम्म-सम्यक् । उक्कस्सं-उत्कृष्टेन । तिण्णित्रीन्। भवे-भवान् । गन्तूण य-गत्वा च । लहइ-लभते । णिव्वाणं-निर्वाणम् । सुविहितः सम्यगाराधनोपयुक्तः कालं कृत्वा उत्कर्षेण त्रीन् भवान् प्राप्य ततो निर्वाणं लभते इति ।।९७ ।। आतुर. गा. ६३ आचार्यानुशान्तिं श्रुत्वा शास्त्रं ज्ञात्वा क्षपकः कारणपूर्वक परिणामं कर्तुकामः प्राह
समणो मेत्ति य पढमं बिदियं सव्वत्थ संजदो मेत्ति ।
सव्वं च वोस्सरामि य एवं भणिदं समासेण ।।९८।। समणो मेत्ति य-श्रमणः समरसीभावयुक्तः, इति च । पढम-प्रथमः । बिदियं-द्वितीयः । सव्वत्थसंजदो-सर्वत्रसंयतः । मेत्ति-मम इति । अथवा श्रमणे मम प्रथमं मैत्र्यम् । द्वितीयं च सर्वसंयतेषु । सव्वं च-सर्वं च । वोस्सरामि य-व्युत्सृजामि च । एदं-ऐतत् । भणिदं-भणितम्। समासेण-समासेन संक्षेपतः । प्रथमस्तावत् समानभावोऽहं द्वितीयश्च सर्वत्र संयतोऽतः सर्वमयोग्यं व्युत्सृजामि एतद्भणितं संक्षेपतो मयेति सम्बन्धः संक्षेपालोचनमेतत् ।।९८ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 393 394 395 396 397 398 399 400