Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
परिशिष्टम्-७ मूलाचारतुलनागाथा:
३५३
आतुर. गा. ५९
तस्मिन् काले यथा द्वादशांगचतुर्दशपूर्वविषया श्रद्धा क्रियते तथा समस्तश्रुतविषया चिन्ता पाठश्च कर्तुं किं शक्यते ? इत्याह
ण हि तम्हि देसयाले सक्को बारसविहो सुदक्खंधो ।
सव्वो अणुचिंते, बलिणावि समत्थचित्तेण ।।१२।। न-प्रतिषेधवचनं । हि-यस्मादर्थे । तम्हि-तस्मिन् । देसयाले-देशकाले । “दिश् अतिसर्जने' दिश्यते अतिसृज्यो इति देशः शरीरं तस्य कालस्तस्मिन् शरीस्परित्यागकाले । सक्को-शक्यः । बारसविहो-द्वादशविधः द्वादशप्रकारः सुदक्खंधो-श्रुतस्कंधः श्रुतवृक्ष इत्यर्थः । सव्वो-सर्व समस्तम्। अणुचिंतेदुं-अनुचिन्तयितुं अर्थेन भावयितुं पठितुं च । बलिणावि-बलिनापि शरीरगतबलेनापि । समत्थचित्तेण-समर्थचित्तेन एकचित्तेन यतिना । तस्मिन् देशकाले बलयुक्तेन समर्थचित्तेनापि द्वादशविधं श्रुतस्कन्धं न शक्यमनुचिन्तयितुम् ।।१२।। आतुर. गा० ६० यतस्ततः किं कर्तव्यम् !
एक्कसि बिदियहि पदे संवेगो वीयरायमग्गम्मि ।
वच्चदि णरो अभिक्खं तं मरणंते ण मोत्तव्यं ।।१३।। एक्कटि-एकस्मिन् नमोऽर्हद्भ्यः इत्येतस्मिन् । विदियह्मि-द्वयोः पूरणं द्वितीयं नमः सिद्धेभ्य इत्येतस्मिन् । संवेओ-संवेगः धर्मे हर्षः । पदे-अर्थपदे ग्रन्थपदे प्रमाणपदे वा पंचनमस्कारपदे च। अथवा एकम्हि बीजम्हिपदे-एकस्मिन्नपि बीजपदे यस्मिन्निति पाठान्तरम् । वीयरागमग्गम्मिवीतरागमार्गे सर्वज्ञप्रवचने । वच्चदि-व्रजति गच्छति प्रवर्तते । णरो-नरेण सर्वसंगपरित्यागिना। अभिक्खं-अभीक्ष्णं नैरन्तर्येण। तं-तत् । मरणंते-मरणान्ते कण्ठगतप्राणेऽत्यसमये वा । ण मोत्तव्वं-न मोक्तव्यं न परित्यजनीयम् । एकपदे द्वितीयपदे वा पंचनमस्कारपदे वा वीतरागमार्गे यस्मिन् संवेगोऽभीक्ष्णं गच्छति तत्पदं मरणान्तेऽपि न मोक्तव्यं नरेण; नरो वा संवेगं यथा भवति तथा यस्मिन्पदे गच्छति प्रवर्तते तत्पदं तेन न मोक्तव्यमिति सम्बन्धः । .
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 392 393 394 395 396 397 398 399 400