Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
आतुरप्रत्याख्यानप्रकीर्णकम्
संन्यासकाले। अमूढसण्णो- अमूढसंज्ञः आहारादिसंज्ञारहितः । जहसु - जहीहि त्यज । देहं - शरीरम्। बाह्ययोगविरहितोऽपि, अभ्यन्तरध्यानयोगप्रविष्टः सन् तस्मिन् देशकाले अमूढसंज्ञो यथा भवति तथा शरीरं जहीहि ।। ८६ ।।
३५२
आतुर. गा० ५७
अमूढसंज्ञके शरीरत्यागे सति किं स्यात् । इत्यतः प्राह
हंतूण रागदोसे छेत्तूणय अट्ठकम्मसंखलियं । जम्मणमरणरहट्टं भेत्तूण भवाहि मुच्चिहसि ।। ९० ।।
हंतूण-हत्वा । रागदासे - रागद्वेषौ अनुरागाप्रीती । छेत्तूण य-छित्त्वा च । अट्ठकम्मसंखलियंअष्टकर्मश्रृंखलाः । जम्मणमरणहट्टं- जन्ममरणारहट्टं जातिमृत्युघटीयंत्रम् । भेत्तू - भित्त्वा । भवाहि-भवेभ्यो भवैर्वा । मुच्चिहिसि - मोक्ष्यसे मुञ्चसि वा । रागद्वेषौ हत्वा अष्टकर्म श्रृंखलाश्च छित्वा जन्ममरणारहट्टं च भित्वा भवेभ्यो मोक्ष्यसे इत्येतत्स्यादिति । । ९० ।।
आतुर. गा० ५८ यद्येवं
सव्वमिदं उवदेसं जिणदिट्ठे सद्दहामि तिविहेण । तसथावरखेमकरं सारं णिव्वाणमग्गस्स ।।९१ ।।
सव्वमिदं सर्वमिमम् । उवदेसं उपदेशमागमम् । जिणदिट्ठे - जिनदृष्टं कथितं वा । सद्दहामि- श्रद्दधे, तस्मिन्, रुचिं करोमीति । तिविहेण - त्रिविधेन । तसथावरखेमकरं - सन्ति उद्विजन्तीति त्रसा द्वीन्द्रियादि पंचेन्द्रियपर्यन्ताः । स्थानशीलाः स्थावराः पृथिवीकायिकादिवनस्पतिपर्यन्ताः । अथवा त्रसनामकर्मोदयात् त्रसाः स्थावरनामकर्मोदयात्स्थावराः तेषां क्षेमं दयां सुखं करोतीति त्रसस्थावरक्षेमकरस्तं सर्वजीवदयाप्रतिपादकम् । सारं - प्रधानभूतं सारस्य कारणात्सारः I णिव्वाणमग्गस्स-निर्वाणमार्गस्य मोक्षवर्त्मनः । सम्यग्ज्ञानदर्शनचारित्राणां तस्मिन् सति तेषां सद्भावान्निर्वाणमार्गस्य सारं त्रसस्थावरक्षेमकरं च सर्वमिममुपदेशं जिनदृष्टं त्रिविधेन श्रद्दधेऽहमिति ।। ९९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400