Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३५०
आतुरप्रत्याख्यानप्रकीर्णकम्
चतुर्दशनदीभिः सागरो न पूर्णः । ण इमो जीवो-नायं जीवः । सक्को-शक्यः । तिप्पेउं-तृप्तुं प्रीणयितुम् । कामभोगेहिं-कामभोगैः, ईप्सितसुखागैराहारस्त्रीवस्त्रादिभिः । यथा अग्निः तृणकाष्ठः, लवणसमुद्रश्च नदीसहस्रैः प्रीणयितुं न शक्यः तथा जीवोऽपि कामभोगैरिति ।।८०।। आतुर. गा. ५२ किमिच्छामात्रेणा जानस्यापि पापं भवतीत्याह
आहारणिमित्तं किर मच्छा गच्छंति सत्तमि पुढविं ।
सच्चित्तो आहारो ण कप्पदि मणसावि पत्थेदं ।।८।। आहारणिमित्तं-आहारकारणात् । किर-किल आगमे कथितं नारुचिवचनमेतत् निश्चयवचनमेव। मच्छा-मत्स्याः । गच्छंति-यान्ति प्रविशन्ति । सत्तमि-सप्तमीम् । पुढविंपृथिवीं अवधिस्थानम् । सच्चित्तो-सह चित्तेन वर्तत इति सचित्तः सावद्योऽयोग्यः प्राणिघातादुत्पन्नः । आहारो-भोजनम् । ण कप्पदि-न कल्पते न योग्यो भवति । मणसावि-मनसापि चित्तव्यापारेणापि । पत्थेदु-प्रार्थयितुं याचयितुम् । आहारनिमित्तं मत्स्याः शालिसिक्थादयो निश्चयेन सप्तमी पृथिवीं गच्छन्ति यतोऽतो मनसापि प्रार्थयितुं सावद्याहारो न कल्पते इति ।।८२।। आतुर. गा. ५३ यतो मनसापि सावद्याहारो न योग्योऽतो.भवान् शुद्ध-परिणामं कुर्यादित्याचार्यः प्राह
पुव्वं कदपरियम्मो अणिदाणो ईहिदूण मदिबुद्धी ।
पच्छा मलिदकसाओ सज्जो मरणं पडिच्छाहि ।।८३।। पुव्वं कदपरियम्मो-पूर्व प्रथमतरं कृतमनुष्ठितं परिकर्म तपोऽनुष्ठानं येनासौ पूर्वकृतपरिकर्मा आदावनुष्ठिततपश्चरणः । अणिदाणो-अनिदान इहलोकपरलोकसुखानाकांक्षः । ईहिदूणईहित्वा चेष्टित्वा उद्योगं कृत्वा । मदिबुद्धी-मतिबुद्धिभ्यां प्रत्यक्षानुमानाभ्यां परोक्षप्रत्यक्षसम्पन्नः । पच्छा-पश्चात् । मलियकसाओ-मथितकषायः क्षमासम्पन्नः । सज्जो-सद्यः तत्परः कृतकृत्यो वा । मरणं-समाधिमृत्युं स्वाध्यायमरणं वा । पडिच्छाहि-प्रतीच्छानुतिष्ठ । विपरिणामान्नरकं गम्यते यतोऽतः प्रत्यक्षपरोक्षप्रमाणाभ्यामागमे निश्चयं कृत्वा पूर्वकृतपरिकर्मानिदनश्च सन् मथितकषायश्च सन् सद्यः मरणं प्रतीच्छेति ।।८३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400