Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
परिशिष्टम्-७ मूलाचारतुलनागाथाः
३४९
आतुर. गा. ४९ यदि संन्यासे पीडा-क्षुधादिकोत्पद्यते ततः किं कर्तव्यमित्याह
जइ उप्पज्जइ दुःखं तो दट्ठव्वो सभावदो णिरये ।
कदमं मए ण पत्तं संसारे संसरंतेण ।।७८।। जइ-यदि । उप्पज्जइ-उत्पद्यते । दुक्खं-दुःखमसातम् । तो-ततः । दट्टब्वो-द्रष्टव्यो मनसालोकनीयः । सभावदो-स्वभावतः स्वरूपं "दृश्यतेऽन्यत्रापि" इति तस्, प्राकृतबलादक्षराधिक्यं वा । णिरए नरकस्य नरके वा । कदम-कियदिदं कतमत् । मए-मया । ण पत्तं-न प्राप्तम्। अथवा, अणं ऋण कृतं मया यत्तन्मयैव प्राप्तम् । संसारे-जातिजरामरणलक्षणे । संसरंतेण-संसरता परिभ्रमता । संन्यासकाले यदुत्पद्यते क्षुधादि दुःखं ततो नरकस्य स्वभावो द्रष्टव्यो यतः संसारे संसरता मया किमिदं न प्राप्तं यावता हि प्राप्तमेवेति चिन्तनीयमिति ।।७८ ।। आतुर. गा. ५० यथा प्राप्तं तथैव प्रतिपादयति
संसारचक्कवालम्मि मए सव्वेवि पुग्गला बहुसो ।
आहारिदा य परिणामिदा य ण य मे गदा तित्ती ।।७९।। संसारचक्कवालम्मि-संसारचक्रवाले चतुर्गतिजन्मजरामरणावर्ते । मए-मया । सब्वेविसर्वेऽपि। पुग्गला-पुद्गला दधिखंडगुडौदननीरादिका । बहुसो-बहुशः बहुवारान् अनन्तवारान् । आहारिदा य-आहृता गृहीता भक्षिताश्च । परिणामिदा य-परिणामिताश्च जीर्णाश्च खलरसस्वरूपेण गमिता इत्यर्थः । ण य मे-न च मम । गदातित्ती-गता तृप्तिः सन्तोषो न जातः, प्रत्युत आकांक्षा जाता । संसारचक्रवाले सर्वेऽपि पुद्गला बहुशः आहृताः परिणामिताश्च मया न च मम गता तृप्तिरिति चिन्तनीयम् । आतुर. गा. ५१ कथं न गता तृप्तिर्यथा
तिणकट्टेण व अग्गी लवणसमुद्दो णदीसहस्सेहिं ।
ण इमो जीवो सक्को तिप्पेदुं कामभोगेहिं ।।८।। तिणकट्टेण व-तृणकाष्ठैरिव । अग्गी-अग्निः । लवणसमुद्दो-लवणसमुद्रः । णदीसहस्सेहिं-नदीसहस्रैश्चतुर्दशभिःसहस्रैर्द्विगुणद्विगुणैर्नदीनां समन्विताभिर्गङ्गासिंध्वादि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400