Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 386
________________ परिशिष्टम्-७ मूलाचारतुलनागाथा: ३४५ द्रव्यभावयोरभेदं कृत्वा चेदमुच्यते । कंदप्पं-कंदर्पस्य भावः कान्दर्पमुपप्लवशीलगुणः । आभिजोग्गं-अभियोगस्य भावः आभियोग्यं तन्त्रमन्त्रादिभीरसादिगाश्यम् । किब्बिस-किल्विषस्य भावः कैल्विष्यं प्रतिकूलाचरणम् । सम्मोहं-स्वस्य मोहः स्वमोहस्तस्य भावः स्वमोहत्वं, शुनो मोह इव मोहो वेदोदयो यस्य स श्वमोहस्तस्य भावः श्वमोहत्वं सह मोहेन वा वर्तते इति तस्य भावः समोहत्वं मिथ्यात्वभावनातात्पर्यम् । आसुरत्तं च-असुरत्वं च-असुरस्य भावः असुरत्वं रौद्रपरिणामसहिताचरणम् । ता-एताः । देवदुग्गईओ-देवदुर्गतयस्तैर्गुणैस्ताः प्राप्यन्ते इतिकृत्वा तद्व्यपदेशः, कारणे कार्योपचारात् । मरणम्मि-मरणे मृत्युकाले सम्यक्त्वे, विराहिए-विराधिते परिभूते । होंति-भवन्ति । सम्यक्त्वे विनाशिते मरणकाले एताः कन्दर्पाभियोग्यकिल्विषस्वमोहासुरदेवदुर्गतयो भवन्तीति । आतुर. गा. ४१ व्यतिरेकद्वारेण बोधिं प्रतिपादयन्नाह मिच्छादसणरत्ता सणिदाणा किण्हलेसमोगाढा । इह जे मरंति जीवा तेसिं पुण दुल्लहा बोही ।।६९।। मिच्छादसणरत्ता-मिथ्यात्वदर्शनरक्ताः अतत्त्वार्थरुचयः । सणिदाणा-सह निदानेनाकांक्षया वक्त इति सनिदानाः । किण्हलेसं-कृष्णलेश्यां अनन्तानुबन्धिकषायानुरञ्जितयोगप्रवृत्तिम् । ओगाढा-आगाढा प्रविष्टा रौद्रपरिणामाः । इह-अस्मिन् । जे-ये । मरंति-म्रियन्ते प्राणांस्त्यजन्ति । जीवा-जीवाः प्राणिनः । तेसिं-तेषाम् । पुण-पुनः । दुल्लहा-दुर्लभाः । बोही-बोधिः सम्यक्त्वसहितशुभपरिणामः । इह ये जीवाः मिथ्यात्वदर्शनरक्ताः, सनिदानाः, कृष्णलेश्यां प्रविष्टाश्च म्रियन्ते तेषां पुनरपि, दुर्लभा बोधिः । उत्कृष्टतोऽर्धपुद्गलपरिवर्तनमात्रात्सम्यक्त्वाविनाभावित्वाद्बोधेरतस्तादात्म्यं ततो बोधेरेव लक्षणं व्याख्यातमिति । आतुर. गा० ४२ अन्वयेनापि बोधेर्लक्षणमाह सम्मइंसणरत्ता अणियाणा सुक्कलेसमोगाढा । इह जे मरंति जीवा तेसिं सुलहा हवे बोही ।।७०।। सम्मइंसणरत्ता-सम्यग्दर्शनरक्ताः तत्त्वरुचयः । अणियाणा-अनिदाना इहपरलोकानाकांक्षाः । सुक्कलेस्सं-शुक्ललेश्याम् । ओगाढा-आगाढा प्रविष्टाः । इह-अस्मिन् । जे-ये । मरंति-म्रियन्ते । जीवा-जीवाः । तेसिं-तेषाम् । सुलहा-सुलभा सुखेन लभ्या । हवे-भवेत् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400