Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
परिशिष्टम्-७ मूलाचारतुलनागाथा:
३४३
वा । जंमे-यन्मया अकदण्हुअं-अकृतज्ञत्वं युष्माकमयोग्यमनुष्ठितम् । पमादेण-प्रमादेन । जो मे-यो मया। किंचिवि-किंचिदपि । भणिओ-भणितः । तमहं-तं जनं अहम् । सव्वं-सर्वम् । खमावेमि-क्षमयामि संतोषयामि । रागद्वेषाभ्यां मनागपि यन्मया कृतमकृतज्ञत्वं योऽपि मया किंचिदपि भणितस्तमहं सर्वं मर्षयामीति । आतुर० गा० ३६ क्षमणं कृत्वा क्षपकः संन्यासं कर्तुकामो मरणभेदान् पृच्छति कति मरणानि ? आचार्यः प्राह
तिविहं भणंति मरणं बालाणं बालपंडियाणं च ।
तइयं पंडियमरणं जं केवलिणो अणुमरंति ।।५९।। तिविहं-त्रिविधं त्रिप्रकारम् । भणंति-कथयन्ति । मरणं-मृत्युम् । बालाणं-बालानां असंयतसम्यग्दृष्टीनाम् । बालपंडियाणं च--बालाश्च ते पंडिताश्च बालपंडिताः । संयतासंयता एकेन्द्रियाविरतेर्बालाः द्वीन्द्रियादिवविरताः पंडिताः । तइयं-तृतीयम् । पंडियमरणं-पंडितमरणं पंडितानां मरणं देहपरित्यागः देहस्यान्यथाभावो वा पंडितमरणम् । जं-यत् येन वा । केवलिणोकेवलं शुद्धं ज्ञानं विद्यते येषां केवलिनः । अणुमरंति-अनुम्रियन्ते अर्हद्भट्टारका गणधरदेवाश्च त्रिप्रकारं मरणं भणन्ति । प्रथमं बालमरणं बालजीवस्वामित्वात्, द्वितीयं बालपंडितमरणं बालपंडितस्वामित्वात्, तृतीयं पंडितमरणं येन केवलिनोऽनुम्रियन्ते । संयताश्च पंडितपंडितमरणस्यात्रैव पंडितेन्तर्भावः सामान्यसंयमस्वामित्वाभेदादिति । अन्यत्र बालबालमरणमुक्तं तदत्र किमिति कृत्वा नोक्तं तेन प्रयोजनाभावात् । ये अकुटिला ज्ञानदर्शनयुक्तास्ते एतैर्मरणैम्रियन्ते । आतुर. गा० ३७ अन्यथाभूताश्च कथमित्युत्तरसूत्रमाह
जे पुण पणट्टमदिया पचलियसण्णा य वक्कभावा य ।
असमाहिणा मरते ण हु ते आराहया भणिया ।।६०।। जे पुण-ये पुनः । पणट्ठमदिया-प्रणष्टा विनष्टा मतिर्येषां ते प्रणष्टमतिकाः अज्ञानिनः । पचलियसण्णा य-प्रचलिता उद्गता संज्ञा आहारभयमैथुनपरिग्रहाभिलाषा येषां ते प्रचलितसंज्ञकाः । वक्कभावा य-कुटिलपरिणामाश्च । असमाहिणा-असमाधिना आर्तरौद्रध्यानेन । मरते-म्रियन्ते भवान्तरं गच्छन्ति । ण हु-न खलु । आराहया-आराधकाः कर्मक्षयकारिणः । भणिया-भणिताः कथिताः । ये प्रणष्टमतिकाः प्रचलितसंज्ञा वक्रभावाश्च ते असमाधिना म्रियन्ते स्फुटं न ते आराधका भणिता इति ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400