Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 387
________________ ३४६ आतुरप्रत्याख्यानप्रकीर्णकम् बोही-बोधिः । इह ये जीवाः सम्यग्दर्शनरक्ताः, अनिदानाः, शुक्ललेश्यां प्रविष्टाः सन्तो म्रियन्ते तेषां सुलभा बोधिरिति। यद्यपि पूर्वसूत्रेणास्यार्थस्य प्रतीतिस्तथापि द्रव्यार्थिकपर्यायार्थिकशिष्यसंग्रहार्थः पुनरारम्भः एकान्तमतनिराकरणार्थं च । आतुर. गा० ४३ संसारकारणस्वरूपं प्रतिपादयन्नाह जे पुण गुरुपडिणीया बहुमोहा ससबला कुसीला य । असमाहिणा मरंते ते होंति अणंतसंसारा ।।७१।। जे पुण-ये पुनः । गुरुपडिणीया-गुरुणां प्रत्यनीकाः प्रतिकूलाः गुरुप्रत्यनीकाः । बहुमोहामोहप्रचुराः रागद्वेषाभिहताः । ससबला-सह शबलेन लेपेन वर्तन्ते इति सशबलाः कुत्सिताचरणाः । कुसीला य-कुशीलाः कुत्सितं शीलं व्रतपरिरक्षणं येषां ते कुशीलाश्च । असमाहिणा-असमाधिना मिथ्यात्वसमन्वितातरौद्रपरिणामेन । मरते-म्रियन्ते । ते-ते । होंति-भवन्ति ते एवं विशिष्टाः । अणंतसंसारा-अनन्तसंसारा अर्धपुद्गलप्रमाणसंसृतयः । ये पुनः गुरुप्रतिकूलाः, बहुमोहाः कुशीलास्तेऽसमाधिना म्रियन्ते ततश्चानन्तसंसारा भवन्तीति । आतुर. गा. ४४ अथ परीतसंसाराः कथं भवन्तीति चेदतः प्राह जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेण । असबल असंकिलिट्ठा ते होंति परित्तसंसारा ।।७२।। जिणवयणे-जिनस्य वचनमागमः तस्मिन्नर्हत्प्रवचने । अणुरत्ता-अनुरक्ताः सुष्ठु भक्ताः । गुरुवयणं-गुरुवचनमादेशं, जे करंति-ये कुर्वति, भावेण-भावेन भक्त्या मंत्रतंत्रशास्त्रानाकांक्षया। असबल-अशवला मिथ्यात्वरहिताः । असंकिलिट्ठा-असंक्लिष्टाः शुद्धपरिणामाः । ते होंति-ते भवन्ति । परित्तसंसारा-परीतः परित्यक्तः परिमितो वा संसारः चतुर्गतिगमनं येषां कुर्वा ते परीतसंसाराः परित्यक्तसंसृतयो वा । जिनप्रवचने येऽनुरक्ताः गुरुवचनं च भावेन कुर्वन्ति, अशबलाः, असंक्लिष्टाः सन्तस्ते परित्यक्तसंसारा भवन्तीति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400